________________
Jain Education
दुसविधे पञ्चक्खाणे पं तं० - अणागय १ मतिक्कतं २ कोडीसहियं ३ नियंटितं ४ चैत्र । सागार ५ मणागारं ६ परिमाकडं ७ निरवसेसं ८ ॥ १ ॥ संकेयं ९ चेव अद्धाए १०, पञ्चक्खाणं दसविहं तु ॥ ( सू० ७४८ )
'दसविहे 'त्यादि प्रतिकूलतया आ-मर्यादया ख्यानं - प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः, 'अणागय' गाहा सांर्द्धा, 'अणागय'त्ति अनागतकरणादनागतं - पर्युषणादावाचार्यादिवैयावृत्त्य करणान्तराय सद्भावादारत एव तत्तपःकरणमित्यर्थः, उक्तं च - " होही पज्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेणं तवस्सि गेलन्नयाए वा ॥ १ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अणागए काले । एयं पच्चक्खाणं अणागयं होइ नायन्त्रं ॥ २ ॥ [ भविष्यति पर्युषणा मम च तदाऽऽन्तरायिकं भविष्यति आचार्यस्य वैयावृत्त्येन तपस्विनो ग्लानतया वा ॥१॥ स तदा तपःकर्म प्रतिपद्यते तदतीते काले प्रत्याख्यानमनागतं भवति ज्ञातव्यं ॥ २ ॥ ] १ 'अइकंतं' ति एवमेवाती ते पर्युषणादौ करणादतिक्रान्तं, आह च"पज्जोसवणाए तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाएं वा ॥ १ ॥ सो दाइ तवोकम्मं | पडिवजइ तं अइच्छिए काले । एयं पञ्चक्खाणं अइक्कतं होइ नायव्वं ॥ २ ॥” इति [ पर्युषणायां यः खलु तपो न करोति. कारणजातेन गुरुवैयावृत्त्येन तपस्विनो ग्लानवैयावृत्त्येन वा ॥ १ ॥ स तदा तपःकर्म प्रतिपद्यते तदतीते काले एतत्प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥ २ ॥] २, 'कोडीसहियंति कोटीभ्यां - एकस्य चतुर्थादेरन्तवि भागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यान कोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च - " पट्ठवणओ उ दिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुन्नि उ तं भन्नइ
For Personal & Private Use Only
Pinelibrary.org