SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ४९३ ॥ कृतकत्वात् घटवद्, इह घंटे कृतकत्वं नित्यत्वविरुद्ध मनित्यत्वमेव साधयतीति, अनैकान्तिको यथा नित्यः शब्दः प्रमेयत्वादाकाशवद्, इह हि प्रमेयत्वमनित्येष्वपि वर्त्तते, ततः संशय एवेति ७ तथा सङ्क्रामणं - प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः अथवा प्रतिवादिमते आत्मनः संक्रामणं परमताभ्यनुज्ञानमित्यर्थः तदेव दोष इति ८, तथा निग्रहः - छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति, तथा वसतः - साध्यधर्मसाधन धर्मावत्रेति वस्तु-प्रकरणात् पक्षस्तस्य दोषः - प्रत्यक्षनिराकृतत्वादिः, यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्ष निराकृतमिति । एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह'दसे त्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरं, 'वत्थु' इत्यादिः सार्द्धः श्लोकः, वस्त्विति प्राक्तन सूत्रस्यान्तोको यः पक्षः, 'तज्जात' मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः, तत्र वस्तुदोषः - पक्षदोषस्तजातदोषश्च - जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, अथवा वस्तुदोषे वस्तुदोषविषये विशेषो-भेदः प्रत्यक्षनिराकृतत्वादिः, तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः, अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढिनिराकृतो यथा शुचि नरशिरःकपालमिति, तज्जातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः, जन्मदोषो यथा - "कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण । तस्स महायणमज्झे आयारा पायडा होंति ॥ १ ॥” [ कच्छूलायां वडवायां यो गदर्भेन क्षिप्तेन जातः । तस्य महाजनमध्ये आकाराः प्रकटा भवन्ति ॥ १ ॥ ] इत्यादिरनेकविधः २, चकारः समुच्चये, तथा 'दोसे'न्ति पूर्वोक्त Jain Education International For Personal & Private Use Only १० स्थाना. उद्देशः ३ शस्त्रदोष विशेषः सू० ७४३ ॥ ४९३ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy