SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ SUUSASHISAISISSEKOSISSHOS सूत्रे ये शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो-विशेषः, अथवा 'दोसेत्तिदोषेषु-शेषदोषविषये विशेषो-भेदः, स चानेकविधः स्वयमूह्यः ३, 'एगहिए यत्ति एकश्चासावर्थश्च-अभिधेयः एकार्थः स यस्यास्ति स एकार्थिकः एकार्थवाचक इत्यर्थः, इतिः-उपप्रदर्शने चः समुच्चये, स च* शब्दसामान्यापेक्षयकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकाथिको यथा गौः, यथोक्तं-दिशि १ दृशि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ उंशौ ८ पशौ ९ च गोशब्दः" इति, इहैकार्थिकविशेषग्रहणेनानेका-16 र्थिकोऽपि गृहीतस्तद्विपरीतत्वात् , न चेहासौ गण्यते, दशस्थानकानुरोधात्, अथवा कथञ्चिदेकाथिके शब्दग्रामे यः कथञ्चिद्भेदः स विशेषः स्यादिति प्रक्रमः, 'इयत्ति पूरणे, यथा शक्रः पुरन्दर इत्यत्रैकार्थे शब्दद्वये शकनकाल एव शक्रः पूर्दारणकाल एव पुरन्दरः एवंभूतनयादेशादिति, अथवा दोषशब्द इहापि सम्बद्ध्यते, ततश्च,न्यायोग्रहणे शब्दान्तरापेक्षया विशेष इति ४, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषो भवति, न चेहोतो, दशस्थानकानुवृत्तेः, अथवा कारणे-कारणविषये विशेषो-भेदो यथा परिणामिकारणं मृत्पिण्डः, अपेक्षाकारणं दिग्देशकालाकाशपुरुषचक्रादि, अथवोपादानकारणं-मृदादि निमित्तकारणं-कुलालादि सहकारिकारणं-चक्रचीवरादीत्यनेकधा कारणं, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति चः समुच्चये, तथा प्रत्युत्पन्नोवार्त्तमानिकः अभूतपूर्व इत्यर्थः दोषः-गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः५, अथवा प्रत्युत्पन्ने-सर्वथा वस्तु-8 न्यभ्युपगते विशेषो यो दोषोऽकृताभ्यागमकृतविप्रणाशादिः स दोषसामान्यापेक्षया विशेष इति ६, तथा नित्यो यो दोषोऽ स्था०८३ Jain Education For Personal & Private Use Only mainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy