________________
सगतस्तदा नासौ पर्वतैकदेशे वर्त्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष इति ४, तथा लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणं च स्वलक्षणं यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वं ५, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता ६, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, तथा हिनोति-गमयतीति हेतुः साध्यसद्भावभावतदभावाभावलक्षणः, ततश्च स्वलक्षणादीनां द्वन्द्वः, तेषां दोषः स्वलक्षणकारणहेतुदोषः, इह काशब्दः छन्दोऽर्थ द्विर्बद्धो ध्येयः ७, अथवा सह लक्षणेन यौ कारणहेतू तयोहोष इति विग्रहः तत्र लक्षणदोषोऽव्याप्तिरतिर्व्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणमिति, इदं स्वलक्षणलक्षणं, इदं चेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात् न योगिज्ञानं, योगिज्ञाने हि न | सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चित्स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात् , अथवा दार्टान्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तद्दोषः-साध्यविकलत्वादिः, तत्र साध्यविकलता यथा नित्यः शब्दो मूर्त्तत्वाद् घटवद्, इह घटे नित्यत्वं नास्तीति कारणदोषः साध्यं प्रति तव्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानकान्तिकत्वलक्षणः, तत्रासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्धं, विरुद्धो यथा नित्यः शब्दः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org