________________
श्रीस्थानागसूत्रवृत्तिः
१०स्थाना. | उद्देशः३
शस्त्रदोषविशेषः सू०७४३
॥४९२॥
CALCHURSAMACADS
प्रस्तावाद्दोषविशेषनिरूपणायाह-'दसविहे'त्यादि, 'तज्जायेंत्यादि वृत्तं, एते हि गुरुशिष्ययोर्वादिप्रतिवादिनोळ वादाश्रया इव लक्ष्यन्ते, तत्र तस्य गुर्वादेर्जात-जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमितिकृत्वा दोषस्तज्जातदोषः, तथाविधकुलादिना दूषणमित्यर्थः, अथवा तस्मात्-प्रतिवाद्यादेः सकाशाजातः क्षोभान्मुखस्तम्भादिलक्षणो दोषस्तज्जातदोषः १ तथा स्वस्यैव मतेः-बुद्धेर्भङ्गो-विनाशो मतिभङ्गो-विस्मृत्यादिलक्षणो दोषो मतिभङ्गदोपः २, तथा प्रशास्ता-अनुशासको मर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः ३, इह त्थाशब्दो लघुश्रुतिरिति, तथा परिहरणं-आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः, अथवा परिहरण-अनासेवनं सभारूढया सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः अथवा वादिनोपन्यस्तस्य दूषणस्य असम्यक्परिहारो जात्युत्तरं परिहरणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद् घटवदिति, अत्र मीमांसकः परिहारमाह-ननु घटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा?, यदि घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः, अथ शब्दगतं तन्नानित्यत्वेन व्याप्तमुपलब्धमित्यसाधारणानैकान्तिको हेतुरित्ययं न सम्यक् परिहारः, एवं हि सर्वानुमानोच्छेदप्रसङ्गः, अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मक, अन्यथा धूमादनलानुमानमपि न सिद्ध्येत्, तथाहि-अग्निरत्र धूमाद्यथा महानसे, अत्र विकल्प्यते-किमोतिशब्दनिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपात्तः उत महानसगतो?, यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यासाधारणानकान्तिको हेतुः, अथ महान
॥४९२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org