SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः १० स्थाना. उद्देशः३ सत्याद्या भाषा: सू०७४१ ॥४९ ॥ 'ववहार'त्ति व्यवहारेण सत्यं व्यवहारसत्यं, यथा दह्यते गिरिः गलति भाजनं, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्तते, उदके च गलति सतीति, 'भाव'त्ति भावं-भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति, 'जोगे'त्ति योगतः-संबन्धतः सत्यं योगसत्यं, यथा दण्डयोगाद् दण्डः छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति । सत्यविपक्षं मृषाह-दसे'त्यादि, 'मोसे'त्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः, 'कोहगाहा, 'कोहे'त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं-कोपाश्रितं मृषेत्यर्थः, तच्च यथा क्रोधाभिभूतः अदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, 'माय'त्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः-'नष्टो गो. लकः' इति, 'लोभेत्ति लोभे निश्रितं वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, 'पिज्ज'त्ति प्रेमणि नि:श्रितं अतिरक्तानां दासोऽहं तवेत्यादि, 'तहेव दोसे यत्ति द्वेषे निश्रितं, मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, 'हासे'त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, 'भयेत्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानं, 'अक्खाइय'त्ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसालापः, 'उव|घायनिस्सिए'त्ति उपघाते-प्राणिवधे निश्रितं-आश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनं, मृषाशब्द|स्त्वव्यय इति । सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह-'दसे'त्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चा ॥४९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy