________________
मोसंति, "उप्पन्नमीसए'त्ति उत्पन्नविषयं मिश्र-सत्यामृषा उत्पन्न मिश्रं तदेवोत्पन्नमिश्रकं, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे व्यवहारतोऽस्य सत्यामृषात्वात् , श्वस्ते शतं दास्यामीत्यभिधाय पञ्चा
शत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद, ४ एवं विगतादिष्वपि भावनीयमिति १, 'विगतमीसए'त्ति विगतविषयं मिश्रकं विगतमिश्रक, यथैकं ग्राममधिकृत्यास्मि-13
नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, 'उप्पन्नविगयमीसए'त्ति उत्पन्नं च विगतं च उत्पन्नविगते तद्विषयं मिश्रक उत्पन्नविगतमिश्रक, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाताः दश च वृद्धा विगता | इत्यभिदधतस्तन्यूनाधिकभाव इति ३, 'जीवमीसए'त्ति जीवविषयं मिश्र-सत्यासत्यं जीवमिश्र, यथा जीवन्मृतकृमिराशौ। जीवराशिरिति ४, 'अजीवमीसए'त्ति अजीवानाश्रित्य मिश्रमजीवमिश्र, यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति ५, 'जीवाजीवमिस्सए'त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव जीवन्मृतकृमिराशी प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, 'अणंतमीसए'त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः ७, 'परित्तमिस्सएत्ति परीत्तविषयं र मिश्रक परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः८, अद्धामिस्सए'त्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित्प्रयोजने सहायांस्त्वरयन परिणतप्राये वा वासरे एव रजनी वर्त्तत इति ब्रवीति ९, 'अद्धद्धामीसए'त्ति अद्धा-दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रक-सत्यासत्यं अद्धाद्धामिश्रकं, यथा
Jain Educationa l
For Personal & Private Use Only
K
inelibrary.org