________________
सते ९ विगतमीसते २ उप्पण्णविगतमीसते ३ जीवमीसए ४ अजीवमीसए ५ जीवाजीवमीसए ६ अनंतमीसए ७ परित्तमीस ८ अद्धामीसए ९ अद्धद्धामीसए १० ( सू० ७४१ )
'दसविहे’त्यादि, सन्तः-प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तमज्ञप्तं, तद्यथा - 'जणवय' गाहा, 'जणवय'त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कोङ्कणादिषु पयः पिश्चं नीरमुदकमित्यादि, सत्यत्वं | चास्यादुष्टविवक्षा हेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, 'संमयत्ति संमतं च तत् सत्यं चेति सम्मतसत्यं, तथाहि - कुमुद कुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संगततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति, 'ठवण'त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकम्मर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं, यथा अजिनोऽपि | जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, 'नामे'त्ति नाम- अभिधानं तत्सत्यं नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, 'रूवे'त्ति रूपापेक्षया सत्यं रूपसत्यं, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, 'पडुच्चसच्चे य'त्ति प्रतीत्य - आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि - तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org