SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ यद्विधा प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह-दसविहे त्यादि, प्रतिषेवणा-प्राणातिपाताद्यासेवनं, 'दप्प सिलोगो, दो-वल्गनादि, 'दप्पो पुण वग्गणाईओ' [दर्पः पुनर्वल्गनादिकः] इति वचनात् , तस्मादागमप्रतिषिद्धप्राणातिपा| ताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः-परिहास विकथादिः, "कंदप्पाइ पमाओ"| कंदर्पादिः प्रमाद] इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो-विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात् , अयमर्थः-क्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तं च-"पढमबीयदुओ वाहिओ व जं सेव आउरा एसा” इति [क्षुधातृषोपद्रुतो व्याधितो वा ४ यत्सेवते एषा आतुरा] तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च-"दव्वाइअलंभे पुण चउबिहा आवया होइ" इति [द्रव्याद्यलाभे पुनः चतुर्विधा आपदो भवन्ति । तथा शङ्किते एषणेऽप्यनेषणीयतया "जं संके तं समावजे" यत्शयेत तत्समापद्येत ॥] इति वचनात्, सहसाकारे-अकस्मात्करणे सति, सहसाकारलक्षणं चेदम्-"पुव्वं अपासिऊणं पाए छूढंमि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥१॥” इति [पूर्वमदृष्ट्वा पादे त्यक्ते यत्पुनः पश्यति । न च निवर्तयितुं शक्नोति सहसाकरणमेतत् प्रायः॥१॥] भयं च-भीतिः नृपचौरादिभ्यः प्रद्वेषश्च-मात्सर्य भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च-"भयमभिउग्गेण सीहमाइ वत्ति" [अभियोगेन सिंहादि वा भयं ] इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-"कोहाईओ पओसो"त्ति [क्रोधादिका dain Educatio n al For Personal & Private Use Only KIRainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy