________________
C
श्रीस्थानाङ्गसूत्रवृत्तिः
१० स्थाना. उद्देशः३ सूक्ष्मादिः सू०७२१७२६
॥४७९॥
LASSAUGANGACAS
प्रथमद्वितीयौ चक्रवर्तिराजौ साकेते नगरे विनीताऽयोध्यापर्याये जातौ प्रव्रजितौ च, मघवान् श्रावस्त्यां, सनत्कुमारा|दयश्चत्वारो हस्तिनागपुरे महापद्मो वाणारस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः ग्रन्थविरोधात्, उक्तं च "जमण विणीय उज्झा सावत्थी पंच हथिणपुरंमि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ला ॥१॥" इति, [जन्म विनीताऽयोध्या श्रावस्तीषु पंच हस्तिनापुरे वाराणस्यां कोपिल्ये राजगृहे चैव कोपिल्ये ॥१॥] अप्रव्रजितचक्रवर्तिनौ तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रन जिता इति, इदमावश्यकाभिप्रायेण व्याख्यातं, निशीथभाष्याभिप्रायेण तु दशस्वेतासु नगरीषु द्वादश चक्रिणो जाताः, तत्र नवस्वेकैकः एकस्यां तु त्रय इति, आह च-"चंपा महुरा वाणारसी य सावत्थिमेव साकेयं । हत्थिण. पुरकंपिल्लं मिहिलाकोसंबिरायगिहं ॥१॥ संती कुंथू य अरो तिन्निवि जिणचकि एकहिं जाया । तेण दस होति जत्थ व केसव जाया जणाइन्न ॥३॥"त्ति, [चंपा मथुरा वाणारसी च श्रावस्ती एव साकेतं हस्तिनापुरं कांपिल्यं मिथिला कोशांबी राजगृहं ॥१॥ शान्तिः कुन्थुश्चारस्त्रयो जिनचक्रिणः एकत्र जाताः तेन दश भवंति यत्र वा केशवा जाता जनाकीर्णाः॥२॥] मन्दरो-मेरुः, 'उब्वेहेणन्ति भूमाववगाहतः, 'विष्कम्भेण' पृथुत्वेन 'उपरि'पण्डकवनप्रदेशे दशशतानि सहस्रमित्यर्थः, दशदशकामि शतमित्यर्थः, केषां?-योजनसहस्राणां, लक्षमित्यर्थः, ईदृशी च भणितिर्दशस्थानकानुरोधात् , 'सर्वाग्रेण' सर्वपरिमाणत इति 'उवरिमहडिल्लेम'त्ति उपरितनाधस्तनयोः क्षुल्लकप्रतरयोः, सर्वेषां मध्ये तयोरेव लघुत्वात् , तयोरथ उपरि च प्रदेशान्तरवृद्ध्या वर्द्धमानतरत्वाल्लोकस्येति, "अट्ठपएसिए'त्ति अष्टौ प्र
॥४७९॥
Jain Education international
For Personal & Private Use Only
ww.jainelibrary.org