SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 94545453 गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यञ्चेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपि नवरं यावत्करणात् 'इंदसेणा वारिसेण'त्ति द्रष्टव्यमिति । 'रायहाणीओ'त्ति राजा धीयते-विधीयते अभिषिच्यते यासु ता राजधान्यः-जनपदानां मध्ये प्रधाननगर्यः, 'चंपा गाहा, चम्पानगरी अङ्गजनपदेषु मथुरा सूरसेनदेशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषु जनपदेषु, 'हत्थिणपुरं'ति नागपुरं कुरुजनपदे काम्पिल्यं पाञ्चालेषु मिथिला विदेहे कोशाम्बी वत्सेषु राजगृहं मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणरमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात्, मासस्यान्तर्द्विस्त्रिा प्रविशतां त्वाज्ञादयो दोषा इति, एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैताः अर्द्धषड्रिंशतावार्यजनपदेषु पड्रिंशतेनगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह-"दसरायहाणिगहणा सेसाणं सूयणा कया होइ । मासस्संतो दुगतिग ताओं अतिमि आणाई ॥१॥ दोषाश्चेह-"तरुणावेसित्थिविवाहरायमाईसु होइ सइकरणं । आउज्जगीयसद्दे इत्थीसद्दे य सवियारे ॥२॥” इति । [दशराजधानीग्रहणाच्छेषाणां सूचना कृता भवति मासान्तःि त्रिः ताः प्रविशत | आज्ञादि ॥१॥ तरुणा वेश्यास्त्री विवाहरागा (राजा)दिषु भवति स्मृतिकरणं आतोद्यगीतशब्दे स्त्रीशब्दे च सविकारे ॥१॥] 'एताखि'ति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजानः चक्रवर्तिनः प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषां कृतः, द्वौ च सुभूमब्रह्मदत्ताभिधानी न प्रव्रजितौ नरकं च गताविति, तत्र भरतसगरौ in Educat For Personal & Private Use Only janelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy