SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ तस्या एव रात्रेः शेष परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहृत्यानन्तरं रात्रिमपि परिहरन्तीति, आह च-"आइन्नं दिणमुक्के सोच्चिय दिवसो व राई य ।" इति [आचीर्ण दिनमुक्ते स एव दिवसः रात्रि ॥] चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वं तु सदपि न विवक्षितं, आन्तरीक्षत्वेनोक्तभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शाश्वतत्वेन विलक्षणत्वादिति, 'पडणे'त्ति पतन-मरणं राजामात्यसेनापतिग्रामभोगिकादीनां, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयतीति निर्भयश्रवणानन्तरमप्यहोरात्रं वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्त बहुस्वजने वा शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहीं लोको मा कार्षीदिति, आह च-"मयहर पगए बहुपक्खिए य सत्तघर अंतर मयंमि । निहुक्खत्ति य गरहा न पढंति सणीयगं वावि ॥१॥” इति [महत्तरे प्रगते बहुपाक्षिके च (शय्यातरे वा) सप्तगृहाभ्यन्तरे मृते निर्दुःखा इति गर्हेति न पठन्ति शनैर्वा ॥ १ ॥] तथा 'रायवुग्गहेत्ति राज्ञां सङ्ग्राम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकं, एवं पांशुपिष्टादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दुःखा एत इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति, उक्तं च-"सेणाहिव भोइय मयहरे य पुंसित्थिमल्लयुद्धे य । लोहाइभंडणे वा गुज्झग उड्डाह अचियत्तं ॥१॥ इति, [सेनाधिपभोजिकमहत्तराणां पुस्त्रियोर्मल्लानां युद्धे च पांशुपिष्टादिभंडने वा गुह्यका उड्डाहो ऽप्रीतिश्च ॥१॥] तथो च ( शय्यातरे वा) सप्तग्रहाभ्यन्ततिप्रामभोगिकमहत्तरपुरुषलीमा यताइन्युडाहो वाऽप्रीति यपि, यत एते प्रायोप्लक्षणत्वात्सेनापतिग्रामभोगिकमा इति गति न पठन्ति शव Jain Education clonal For Personal & Private Use Only ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy