SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः १०स्थाना. उद्देशः३ अस्वाध्यायिक सू०७१५ ॥४७६॥ सूक्ष्मत्वात्सर्वमकायभावितं करोतीति, 'रयउग्घाए'त्ति विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह-दसविहे ओरालिए' इत्यादि, औदारिकस्य-मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकं, तत्रास्थिमांसशोणितानि प्रतीतानि, तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिक द्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे चाप्यधीयते, यदाह-"सोणिय मंसं चम्मं अट्ठीवि य होंति चत्तारि" इति, [शोणितं मासं चास्थि भवन्त्यपि चत्वारि ॥] क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत्तृतीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेऽहोरात्रं चेति, भावतः सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत् आर्तवं दिनत्रयं स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकं अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिक न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा अशुचीनि-अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं-समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य-"सोणियमुत्तपुरीसे घाणालोयं परिहरेजा” इति [शोणितमूत्रपुरीषेषु घ्राणालोको परिहरेत् ] श्मशानसामन्त-शबस्थानसमीपं, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदं कालमान-यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा वा निमजति तदा ग्रहणकालं तद्वात्रिशेषं तदहोरात्रशेषं च ततः परमहोरात्रं च वर्जयन्ति, आह च-"चंदिमसूरुवरागे निग्याए। गुंजिए अहोरत्तं" इति [चन्द्रसूर्योपरागे निर्घात गुंजितेऽहोरात्रं आचरितं तु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणे ४७६॥ |{जिए अहोरत्त महणकालं तद्राविशेषतरागोऽपि, इह चेदं कामचन्द्रस्य-चन्द्रविमानस्यारहरेजा” इति [शोणित Jain Educationa l For Personal & Private Use Only CILainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy