SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ वराते सूरोवराए पडणे रायवुग्गहे उवसयस्स अंतो ओरालिए सरीरगे (सू० ७१४ ) पंचिंदियाणं जीवाणं असमारभमाणस्स दसविधे संजमे कज्जति, तं०-सोयामताओ सुक्खाओ अववरोवेत्ता भवति सोतामतेण दुक्खेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति, एवं असंयमोवि भाणितव्वो (सू० ७१५) तत्र 'अंतलिक्खए'त्ति अन्तरिक्ष-आकाशं तत्र भवमान्तरीक्षकं स्वाध्यायो-वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकं तत्रोल्का-आकाशजा तस्याः पातः उल्कापातः, तथा दिशो दिशि वा दाहो दिद्गाहः, इदमुक्तं भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवत्ती स दिशाह इति, गर्जित-जीमूतध्वनिः, विद्युत्-तडित् निर्घात:-साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः, 'जूयए'त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जुयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति | भावः, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे वाऽज्ञायमाने काल-* वेला न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं | स्वरूपं-"दिसिदाहो छिन्नमूलो उक्कसरहा पयासजुत्ता वा। संझाछेयावरणो जुयओ सुक्के दिणे तिन्नि ॥१॥"[छिनमूलो दिद्गाहः सरेखा प्रकाशयुक्ता वा उल्का संध्याछेदावरणस्तु यूपक एव शुक्ले त्रीणि दिनानि ॥१॥] 'जक्खालितंति यक्षादीधमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका-महिकाभेदो वर्णतो धूमिका धूमाकारा धूवेत्यर्थः, महिका प्रतीता, एतच्च द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव स्था०८० Jain EducationIA. For Personal & Private Use Only Shelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy