________________
म्यक्त्वमिथ्यात्वमिश्रभेदात्, सम्यक्त्वे सति चारित्रमिति ततस्तपरिणाम उक्तः, स च सामायिकादिभेदात् पञ्चधेति, साख्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टेतिर
चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः, स च ख्यादिभेदात् त्रिविध इति । 'अजीवे'त्यादि, अजीवानां-पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धनं-पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत्-"समनिद्धयाए बंधो न होइ समलुक्खयायवि न होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥"[समस्निग्धतया बंधो न भवति समरूक्षतयापि न भवति विमात्रस्निग्धरूक्षत्वेन स्कन्धानां बन्धः॥१॥] एतदुक्तं भवति-समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते "निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा ॥१॥" इति [स्निग्धस्य द्विकाधिकेन स्निग्धेन रूक्षस्य द्विकाधिकेन रूक्षेण रूक्षेण स्निग्धस्य बन्ध उपपद्यते विषमः समो वा जघन्यवयंः॥१॥] गतिपरिणामो द्विविधः-स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, गतिमद्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि-अभ्रषहर्म्यतलगत-| विमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशद्गतिपरि-1 णाम इति, अथवा दीर्घइस्वभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डलवृत्तव्यस्रचतुरस्रायतभेदात् पञ्चविधः,
Jain Education
For Personal & Private Use Only
lainelibrary.org