________________
Jain Education
पक्खवो ॥” इति [मूलात् स्वार्थ पाके प्रक्षेपः साध्वर्थमध्यवपूरकः ॥ ] 'पूईए'त्ति शुद्धमपि कर्माद्यवयवैरपवित्रीकृतं पूतिकं, उक्तं च- “कम्मावयवसमेयं संभाविज्जइ जयं तु तं पूई ॥” इति [ आधाकर्मावयवसमेतं संभाव्यते यत्तस्पूतिकं ॥] 'कीए' त्ति द्रव्येण भावेन वा क्रीतं - स्वीकृतं यत्तत्क्रीतमिति, यतोऽभ्यधायि - "दव्वाइएहिं किणणं साहूपट्टाइ कीयं तु ॥” इति [ द्रव्याद्यैः क्रीणनं साध्वर्थं तत्क्रीतन्तु ॥ ] 'पामिचं' अपमित्यकं - साध्वर्थमुद्धारगृहीतं, यतोऽभिहितम् - "पामिचं साहूणं अड्डा उच्छिंदिडं दियावेइ" इति [साध्वर्थं उद्यतकं गृहीत्वा ददाति प्रामित्यकं ] 'आच्छेद्यं' बलाद् भृत्यादिसत्कमाच्छिद्य यत्स्वामी साधवे ददाति, भणितं च - " अच्छेजं चाछिंदिय जं सामी भिमाईणं” इति [ भृत्यादिभ्य आच्छिद्य यत्स्वामी दत्ते तदाच्छेद्यं ] 'अनिस्सृष्टं' साधारणं बहूनामेकादिना अननुज्ञातं दीयमानं, आह च - " अणिसट्टं सामन्नं गोट्ठियमाईण दयउ एगस्स " इति [ गोष्ट्यादीनां सामान्यं एकस्य ददतोऽनिसृष्टं ॥ ] 'अभ्याहृतं ' स्वग्रामादिभ्य आहृत्य यद्ददाति यतोऽवाचि - " सग्गामपरग्गामा जमाणियं अभिहडं तयं होइ " इति [स्वग्रामपरग्रामाद्यदानीतं तदभ्याहृतं भवति ॥] [अध्यवपूरकादीनां स्वरूपमुक्तं न तु व्युत्पत्तिरित्याह - 'एषा 'मित्यादि ] एषां शब्दार्थः प्रायः प्रकट एवेति, कान्तारभक्तादय आधाकम्र्म्मादिभेदा एव तत्र कान्तारं - अटवी तत्र भक्तं- भोजनं यत्साध्याद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो - रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते, तथा वर्द्धलिकामेघाडम्बरं तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति, प्राघूर्णकाः- आगन्तुकाः भिक्षुका एव तदर्थं यद्भकं तत्तथा प्राघूर्णको वा गृही स यद्दापयति तदर्थं संस्कृत्य तत्तथा, मूलं
ional
For Personal & Private Use Only
hinelibrary.org