________________
गौरिवोसन्नबला, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः, 'सीहेत्ति 'सीहो इव दुद्धरिसे' परीपहादिभिरनभिभवनीय इत्यर्थः,
नगराया चेवत्ति 'मंदरो इव अप्पकंपे' मेरुरिवानुकूलाद्युपसगरविचलितसत्त्वः, 'सागरमक्खोहि'त्ति मकारोऽलाक्षणिकः |सागरवदक्षोभः सागराक्षोभ इति सूत्रसूचा, सूत्रं च 'सागरो इव गंभीरे' हर्षशोकादिभिरक्षोभितत्वादिति, 'चंदे'त्ति 'चंदे इव सोमलेसे' अनुपतापकारिपरिणामः, 'सूर'त्ति 'सूरे इव दित्ततेए' दीप्ततेजा द्रव्यतः शरीरदीच्या भावतो ज्ञानेन, 'कणगे'त्ति 'जच्चकणगंपिव जायसवे' जातं-लब्धं रूप-स्वरूपं रागादिकुद्रव्यविरहाद् येन स तथा, 'वसुंधरा चेव'त्ति 'वसुंधरा इव सबफासविसहे' स्पर्शा:-शीतोष्णादयोऽनुकूलेतराः, 'सुहुयहुए'त्ति व्याख्यातमेवेति, 'नत्थी'त्यादि, नास्ति तस्य भगवतो महापद्मस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धः-स्नेहो भविष्यतीति, "अण्डए इव'त्ति अण्डजो-हंसादिः ममायमित्युलेखेन वा प्रतिबन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्धः स्यादित्यथवाऽण्ड पट्टसूत्रजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात् , अथवा पोतको बालक इति वा, 3 अथवा पोतकं वस्त्रमिति वा प्रतिबन्धः स्यात्, आहारेऽपि च विशुद्धे सरागसंयमवतः प्रतिबन्धः स्यादिति दर्शयति'उग्गहिए इव'त्ति अवगृहीतं-परिवेषणार्थमुत्साटितं प्रगृहीतं-भोजनार्थमुत्साटितमिति, अथवा अवग्रहिकमिति-अवग्रहो|ऽस्यास्तीति वसतिपीठफलकादिः, औपग्रहिकं वा दण्डकादिकमुपधिजातं, तथा प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकम्-औधिकमु. *पकरणं पात्रादीनि, अथवा अण्डजे वा पोतजे वेत्यादि व्याख्येयमिकारस्त्वागमिक इति, 'जन्नं'ति यां यां दिशं ण
मिति वाक्यालङ्कारे तुशब्दो वा अयं तदर्थ एव, इच्छति तदा विहर्तुमिति शेषः, तां तां दिशं स विहरिष्यतीति सम्ब
Jain Education
For Personal & Private Use Only
embrary.org