________________
ANSAROctsies
नीयाभिः प्रियाभिः-प्रेमोत्सादिकाभिः, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते-मनोज्ञाभिः-शुभस्वरूपाभिः मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह-'मणामाहिति मनः अमन्ति-गच्छन्ति यास्ताः तथा ताभिरुदारेण-उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः कल्यं-आरोग्यं अणन्ति-शब्दयन्तीति कल्याणास्ताभिः, शिवस्य-उपद्रवाभावस्य सूचकत्वाच्छिवाभिः धनं लभन्ते धने वा साध्व्यो धन्यास्ताभिः मङ्गले-दुरितक्षये साध्व्यो मङ्गल्यास्ताभिः सह श्रिया-वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति सम्बन्धितं अभिनन्द्यमानः-समुल्लास्यमानः, 'बहिय'त्ति नगरादहिस्तादिति । इतो वाचनानन्तरमनुश्रित्य लिख्यते-'साइरेगाइ'न्ति अर्द्ध| सप्तमैर्मासैदश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्मवर्जनतस्त्यक्ते देहे परीषहादिसहनतस्तथा सक्ष्यति उत्सत्स्यमाने
पसर्गेषु भयाभावतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावतः तितिक्षिष्यति दैन्याभावतः अध्यासिष्यते अविचलतयेति, 'जाव गुत्तेत्तिकरणादिदं दृश्य-'एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए' भाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः, 'उच्चारपासवणखेलसिंघाणजल्लपारिठावणियासमिए' खेलो-निष्ठीवनं सिंघाणो-नासिकाश्लेष्मा जल्लोमला, 'मणगुत्ते वइगुत्ते कायगुत्ते 'गुत्ते' गुप्तत्वाद् त्रिगुप्तात्मेत्यर्थः, 'गुत्तिदिए' स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः, 'गुत्तभचारी' गुप्तं-नवभिब्रह्मचर्यगुप्तिभी रक्षितं ब्रह्म-मैथुनविरमणं चरतीति विग्रहः, तथा 'अममे' अविद्यमानममे| त्यभिलापो निरनुषङ्गत्वात् 'अकिंचणे'नास्ति किंचणं-द्रव्यं यस्य स तथा, 'छिन्नग्रन्थे' छिन्नो ग्रन्थो-धनधान्यादिस्तप्रतिबन्धो वा येन स तथा, क्वचित् 'किन्नग्गन्थे' इति पाठस्तत्र कीर्णः-क्षिप्तः, 'निरुवलेवे' द्रव्यतो निर्मलदेहत्वात् भा
स्था० ७८
Jain Education
nona
For Personal & Private Use Only
jalnelibrary.org