________________
श्रीस्थानागसूत्र- वृत्तिः
*****
९ स्थाना० उद्देशः३ महापद्म
चरितं
॥४६२॥
सू०६९३
*
रूपं-स्वभावो यस्य न मात्रयापि प्रकारान्तरापन्नमित्यर्थः, किं तत्?-नामधेर्य-प्रशस्तं नाम, किंविधम्?-गौणं न पा- रिभाषिकं, गौणमित्यमुख्यमपि स्यादित्याह-गुणनिष्पन्न' इति गुणानाश्रित्य पद्मवर्षादीनिष्पन्नं गुणनिष्पन्नमित्यक्षर- घटना, 'महापउमे महापउमें त्ति तपित्रोः पर्यालोचनाभिलापानुकरणं, 'तए ण ति पालोचनानन्तरं 'महापउम' इति महापद्म इत्येवंरूपं 'साइरेगट्ठवासजायगं'ति सातिरेकाणि-साधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा तं, 'रायवन्नओ'त्ति राजवर्णको वक्तव्यः, स चायं-'महयाहिमवन्तमहन्तमलयमंदरमहिंदसारे' महता-गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तया हिमांश्च-वर्षधरपर्वतविशेषः महांश्चासौ मलयश्च विन्ध्य इति चूर्णिकारः महामलयः सच मेंन्दरश्च-मेरुः महेन्द्रश्च-शक्रादिः ते इव सारः-प्रधानो यः स तथा, 'अञ्चंतविसुद्धदीहरायकुलवंसप्पसूए' अत्यन्त विशुद्धः सर्वथा निर्दोषः दीर्घश्च-पुरुषपरम्परापेक्षया यो राज्ञां-भूपालानां कुललक्षणो वंश:-सन्तानस्तत्र प्रसूतो-जातो यः स तथा 'निरन्तरं रायलक्खणविराइयंगुवंगे नैरन्तर्येण राजलक्षणैः-चक्रस्वस्तिकादिभिर्विराजितान्यङ्गानि-शिरःप्र[भृतीन्युपाङ्गानि च-अङ्गल्यादीनि यस्य स तथा, 'बहुजणबहमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए'त्ति प्रतीत 'मुद्धाभिसित्ते' पितृपितामहादिभिर्मूर्द्धन्यभिषिक्तो यः स तथा, 'माउपिउसुजाए' सुपुत्रो विनीतत्वादिनेत्यर्थः, 'दयप्पत्ते' दयाप्राप्तो दयाकारीत्यर्थः सीमडुरे-मर्यादाकारी 'सीमन्धरे' मर्यादा पूर्वपुरुषकृती धारयति-नात्मनापि लो-| पयति यः स तथा खेमकरो-नोपद्रवकारी खेमधरे-क्षेमं धारयत्यन्यकृतमिति यः स तथा, 'माणुस्सिदे जणवयपिया'। |लोकपिता वत्सलत्वात् , 'जणवयपुरोहिए' जनपदस्य पुरोधाः-पुरोहितः शान्तिकारीत्यर्थः, 'सेतुकरें' सेतु-मागेमा
**
निरन्तरं रायलक्खणविसब स तथा, 'बहुजणबड्डुमा मोडपिउसुजाप ।
*
॥४६२॥
*****
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org