________________
खणं एयं ॥ १॥” इति माणः प्रतिपूर्णानि मुष्ट जागजातसर्वाङ्गसुन्दरा, तथा मिति दारकं प्रजनिया
SHARRARWARRIORAKA
च्छ्रयता, उक्तं च-"जलदोण १ मद्धभार २ समुहाई समुस्सिओ व जो नव उ ३। माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥१॥" इति [जलद्रोणो मानमर्द्धभारमुन्मानं स्वमुखानि नवसमुच्छ्रितो यस्तु प्रमाणं त्रिविधं एतल्लक्षणं खलु] ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्टु जातानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गं, तथा शशिवत्सौम्याकारं कान्त-कमनीयं प्रियं-प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनस्तं, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः, 'जं रयणिं च'त्ति यस्यां च रजन्यां 'तं रयणि चत्ति तस्यां रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोसत्तिरिति रजनीग्रहणं, 'से दारए पयाहित्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, 'सभितरवाहिरए'त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः, विंशत्या पलशतैर्भारो भवति अथवा पुरुषो-3 क्षेपणीयो भारो भारक इति यः प्रसिद्धः अग्रं-प्रमाणं ततो भार एवाग्रं भारायं तेन भाराग्रेण भाराग्रशो-भारपरिमाणतः, एवं कुम्भाग्रशो, नवरं कुम्भ आढकषष्ट्यादिप्रमाणतः, पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, 'जावत्ति करणात् 'निव्वत्ते असुइजाइकम्मकरणे संपत्ते'त्ति दृश्य, तत्र 'निवृत्ते' निर्वर्तित इत्यर्थः पाठान्तरतः निव्वत्ते वा निवृत्ते-उपरते अशुचीनां-अमेध्यानां जातकर्मणां-प्रसवव्यापाराणां करणे-विधाने सम्प्राप्ते-आगते 'बारसाहदिवसे'त्ति द्वादशानां पूरणो द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति, 'अयंति इदं वक्ष्यमाणतया प्रत्यक्षासन्नं 'एयारूवंति एतदेव
Jain Education
a
l
For Personal & Private Use Only
ainelibrary.org