SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३०५ ॥ Jain Education In द्दालयति 'विच्छिनत्ति' विच्छिन्नं करोति, दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति आच्छिनत्ति, विशेषेण छिनत्ति विच्छिनत्ति, भिनत्ति - पात्रं स्फोटयति अपहरति - चोरयति, वाशब्दाः सर्व्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानं, इदं चाक्रोशादिकं, इह प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यमुपसर्गविवक्षायां तु मानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति १ । तथा यक्षाविष्टो देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयं २, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्म्मवशवर्त्ती 'ममं च पंति मम पुनस्तेनैव - मानुष्यकेण भवेन-जन्मना वेद्यते - अनुभूयते | यत्तत्तद्भववेदनीयं कर्म्म उदीर्ण भवति-अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयं ३, तथा एष बालिशः पापाभीतत्वात्करोतु नामाक्रोशनादि मम पुनरसहमानस्य 'किं मन्ने त्ति मन्ये इति निपातो वितर्कार्थः 'कज्जइ'त्ति सम्पद्यते, इह वि - ४ निश्चयमाह - 'एगंतसो'त्ति एकान्तेन सर्वथा पापं कर्म - असातादि 'क्रियते' संपद्यत इति चतुर्थं, तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चमं, 'इच्चे ही' त्यादि निगमनमिति, शेषं सुगमं । छद्मस्थ विपर्ययः केवलीति तत्सूत्रं, तत्र च क्षिप्तचित्तः - पुत्रशोकादिना नष्टचित्तः, दृप्तचित्तः - पुत्रजन्मादिना दवच्चित्त उन्मत्त एवेति, मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषां, यदाह - " जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते तयणुचरा केण सीएज्जा ? ॥ १ ॥” इति, [ यो मार्ग उत्तमैः प्रहतः स शेषाणां न दुष्करः आचार्ये यतमाने तदनुचराः केन सीदेयुः १ ॥ १ ॥ ] 'इचेही त्याद्यत्रापि निगमनं, शेषं सुगममिति । छद्मस्थकेवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह For Personal & Private Use Only ५ स्थाना० उद्देशः १ छद्मस्थके वेलिपरि पहाः सू० ४०९ ॥ ३०५ ॥ ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy