________________
Jain Education Int
अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३ ममं च णं तब्भववेयणिज्जे कम्मे उदिने भवति तेण मे एस पुरिसे जाव अवहरति वा ४ ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अन्ने छउ - मत्था समणा णिग्गंथा उदिने २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५, इचेतेहिं पंचहि ठाहिं केवल उदिने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा ( सू० ४०९ )
स्फुटं, किन्तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्म्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकषाय इत्यर्थः, उदीर्णान- उदितान् परीषहोपसर्गान् - अभिहितस्वरूपान् सम्यक् - कषायोदय निरोधादिना सहेत - भयाभावेनाविचलनाद् भटं भटवत् क्षमेत क्षान्त्या तितिक्षेत अदीनतया अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति, उदीर्ण- उदितं प्रबलं वा कर्म्म - मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्मा खलुर्वाक्यालङ्कारे अयं - प्रत्यक्षः पुरुषः उन्मत्तको - मदिरादिना विप्लुतचित्तः स इव उन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो, भूतशब्दस्य प्रकृत्यर्थ - त्वात्, उदीर्णकर्म्मा यतोऽयमुन्मत्तकभूतः पुरुषः तेन कारणेन 'मे' इति मां एष:-अयमाक्रोशति - शपति अपहसतिउपहासं करोति अपघर्षति वा — अपघर्षणं करोति निश्छोटयति-सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति निर्भर्त्सयति दुर्वचनैः बध्नाति रज्वादिना रुणद्धि कारागारप्रवेशादिना छवेः - शरीरावयवस्य हस्तादेः छेदं करोति मरण| प्रारम्भः प्रमारो - मूर्च्छाविशेषो मारणस्थानं वा तं नयति-प्रापयतीति अपद्रावयति मारयति अथवा प्रमारं - मरणमेव 'उवद्दवेइ'त्ति उपद्रवयति उपद्रवं करोतीति, पतग्रहं पात्रं कम्बलं - प्रतीतं पादप्रोञ्छनं-रजोहरणं आच्छिनत्ति - बलादु
For Personal & Private Use Only
ainelibrary.org