SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ CAROSAROSAR विद्यया पञ्चसु पूर्वभवेषु मारितः, षष्ठभवे षण्मासावशेषायुषा तेनासौ नेष्टा, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवर द विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतं, तेन च स्वपिता स च कालसन्दीपो मारितः, विद्याधरचक्रवर्तित्वं च प्रापि, ततोऽसौ सर्वीस्तीर्थकरान् वन्दित्वा नाट्यं चोपदाभिरमते स्मेति । तथा श्राविकां श्रमणोपासिकां सुलसाभिधानां बुद्धः-सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा-ज्ञाता येन स श्राविका६ बुद्धः 'अंमडों' अंमडाभिधानः परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थः कथानकादवसेयः, तच्चेदं-चम्पाया न-18 गर्याः अम्बडो विद्याधरश्रावको महावीरसमीपे धर्ममुपश्रुत्य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणितः, यथा सुलसाश्राविकायाः कुशलवार्ती कथयेः, स च चिन्तयामास-पुण्यवतीयं यस्यात्रिलोकनाथः स्वकीयकुशलवार्ता प्रेषयति, कः पुनस्तस्या गुण इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकोषधारिणा गत्वा तेन भणिताऽसौ-आयुष्मति ! धर्मों भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम्-येभ्यो दत्ते भवत्यसौ ते विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तु नैच्छत् , लोकास्तं प्रपच्छ-कस्य भगवन् ! भोजनेन भागधेयवत्त्वं मासक्षपणपर्यन्ते संवर्द्धयिष्यति?, स प्रतिभणति स्म-सुलसायाः, ततो लोकस्तस्या वर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि-किं पाख|ण्डिभिरस्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि-परमसम्यग्दृष्टिरेषा या महातिशयदर्शनेशिन दृष्टिव्या मोहमगमदिति, ततो लोकेन सहासौ तद्गहे नैषेधिकी कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां स्था० ७७| OKROACute Jain Education Her For Personal & Private Use Only nelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy