SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ श्रेणिको राजा प्रसिद्धस्तेन १, एवं सुपार्थो भगवतो वर्द्धमानस्य पितृव्यः २, उदायी कोणिकपुत्रः, यः कोणिकेऽप कान्ते पाटलिपुत्रं नगरं न्यवीविशत् यश्च स्वभवनस्य विविक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरूंस्तत्पर्युपासनापरादियणः परमसंवेगरसप्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकमायोग्यमनुष्ठानमनुतिष्ठते एकदा च निशि देश-18 नि.टितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायाकर्तिकाकण्ठकर्त्तनेन विनाशित इति ३, पोहिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भा-18 त्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नः महाविदेहात्सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति ४, दृढायुरप्रतीतः ५, शङ्खशतको श्रावस्तीश्रावको, ययोरीदृशी वक्तव्यता-किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्तमानांस्तान् शङ्खः खल्वाख्याति स्म-यथा भो देवानांप्रिया! विपुलमशनाद्युपस्कारयत ततस्तसरिभुञ्जानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तत्प्रतिपेदिरे, पुनः शङ्खोऽचिन्तयत्-न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्तुं श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्ते, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयांचक्रुः एकत्र च समवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शङ्ख पुष्कलीनामा श्रमणोपासकः शतक इत्यपर-2 नाम शङ्खस्याकारणार्थ तद्गृहं जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, ततः पौषधशालायां स विवेश,18 in due For Personal & Private Use Only nelor
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy