________________
वीरेणं समणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पं० २०–ण हणइ ण हणावइ हणंतं णाणुजाणइ ण पतति ण
पतावेति पतंतं णाणुजाणति ण किणति ण कितावेति किणंतं णाणुजाणति (सू० ६८१) 'नव निउणे'त्यादि, निपुणं-सूक्ष्म ज्ञानं तेन चरन्तीति नैपुणिकाः निपुणा एव वा नैपुणिकाः 'वत्थु'त्ति आचार्या| दिपुरुषवस्तूनि पुरुषा इत्यर्थः, 'संखाणे' सिलोगो, सङ्ख्यानं-गणितं तद्योगात्पुरुषोऽपि तथा, सञ्जयाने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं-चूडामणिप्रभृति कायिक-शारीरिकम् इडापिङ्गलादि प्राणतत्त्वमित्यर्थः, पुराणोवृद्धः, स च चिरजीवित्वाद् दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा-शास्त्रविशेषः तज्ज्ञो निपुणप्रायो भवति, | 'पारिहथिए'त्ति प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्जेति, तथा परः-प्रकृष्टः पण्डितः परपण्डितो-बहुशास्त्रज्ञः परो वा-मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादीवादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः, अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि-अध्ययनविशेषा एवेति । एते च नैपुणिकाः साधवो गणान्तर्भाविनो भवन्तीति गणसूत्रं-समणस्से'त्यादि सूत्रं कण्ठ्यं, नवरं गणाःएकक्रियावाचनानां साधूनां समुदायाः, गोदासादीनि च तन्नामानीति । उक्तगणवर्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह-समणेण'मित्यादि, नवभिः कोटिभिः-विभागैः परिशुद्धं-निर्दोष नवकोटिपरिशुद्ध भिक्षाणां समूहो भैक्षं प्रज्ञप्तं, तद्यथा-न हन्ति साधुः स्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना घ्नन्तं न-नैव अनुजानाति
स्था० ७६
Jain Education
For Personal & Private Use Only
mjainelibrary.org