________________
GANA
AUSACCUSAMASSACROSS
द हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति स्त्याना वा-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपाऽस्यामिति स्त्या
नद्धिरित्यप्युच्यते, तद्भावे हि स्वप्नुः केशवार्द्धवलसदृशी शक्तिर्भवति, अथवा स्त्याना-जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानर्द्धिः स्त्यानगृद्धिरिति वा, तदेवं निद्रापञ्चकं दर्शनावरणक्ष-18 योपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शनं-सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणं, अचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यदर्शनं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणं, अवधिना-रूपिमर्यादया अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं-सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, तथा केवलं-उक्तस्वरूपं तच्च तदर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविध दर्शनावरणं । जीवानां कर्मणः सकाशान्नक्षत्रादिदेवत्वं तिर्यक्त्वं | मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्दं 'अभीत्यादि हम्मिहंति सचक्केहिं' इत्येतदन्तमाह सुगम च, नवरं 'साइरेग'त्ति सातिरेकान्नव मुहूर्तान् यावच्चतुर्विंशत्या मुहूर्त्तस्य द्विषष्टिभागैः षषष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, 'उत्तरेण जोगं'ति उत्तरस्यां दिशि स्थितानि, दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः, 'बहुसमरमणिजाउ'त्ति अत्यन्तसमो बहुसमोऽत एव रमणीयो-रम्यस्तस्माद्भूमिभागात् न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, 'आबाधाए'त्ति अन्तरे कृत्वेति वाक्यशेषः, 'उवरिल्ले ति उपरितनं तारारूपं-तारकजातीयं 'चार' भ्रमणं 'चरति' आचरति, 'नवजोयणिय'त्ति नव योजनायामा एवं प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत
त्ति सातिरेकान्नवत उत्तरस्यां दिशि एव रमणीयो रम्यवारले ति उपरित लवणसमुद्रे यद्यपि
ASSURABA
Jan Education
For Personal & Private Use Only
helbrary.org