SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्तिः ॥४४७॥ समवाये निरवसेसं जाव एगा से गब्भवसही सिज्झिस्सति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भावस्संति एवं जधा समवाते निरवसेसं जाव महाभीमसेण सुग्गीवे य अपच्छिमे । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चकजोही हम्मेहंती सचक्केहिं ।। १ ॥ (सू० ६७२) 'नवे'त्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म दर्शनावरणं तत् नवविधं, तत्र निद्रापञ्चकं तावत् 'द्रा कुत्सायां गतौ नियतं द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा-सुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वाद्दःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वं तद्विपाकवेद्या कर्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट उर्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा ह्युपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्नुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिरपि प्रचलेति उच्यते, तथैव प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्क्रमणादि कुर्वतः स्वप्तुर्भवत्यतः स्थानस्थितस्वप्नुभवां प्रचलामपेक्ष्यातिशायिनी तद्विपाका कर्मप्रकृतिरपि प्रचलाप्रचला, स्त्याना-बहुत्वेन सङ्घातमापन्ना गृद्धिः-अभिकाला जाग्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां ९ स्थाना० | उद्देशः ३ निद्रादिनक्षत्रयोगौ तारकाबाधा मत्स्या रामाद्या सू०६६८६७२ ॥४४७॥ 0940 Jan Education tema For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy