________________
श्रीस्थाना.
सूत्रवृत्तिः
॥४४५॥
रन्ति-दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याबादयन्तीति मनोरमानि आलोक्यालोक्य 'निर्याता' दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशा- वंशस्येत्यादि भवति ब्रह्मचारीति ४ 'नो प्रणीतरसभोगी' नो गलत्स्नेहबिन्दुभोक्ता भवति ५ नो पानभोजनस्य रूक्षस्याप्यतिमात्रस्य "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाऊपवियारणट्ठा छन्भायं ऊणयं कुज्जा ॥१॥" [ अर्धमशनस्य सव्यञ्जनस्य कुर्यात् द्रवस्य द्वौ भागौ। वायुप्रविचारणार्थ षष्ठं भागमूनं कुर्यात् ॥१॥] इत्येवंविधप्रमाणातिक्रमेणाहारकः-अभ्यवहर्ता 'सदा सर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वासानभोजनयोग्रहणमिति ६ 'नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा 'पूर्वक्रीडितं' तथैव द्यूतादिरमणलक्षणं 'स्मा' चिन्तयिता भवति ७ 'नो शब्दानुपातीति शब्द-मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति-अनुसरतीत्येवंशीलः शब्दानुपाती एवं रूपानुपाती श्लोक-ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८ 'नो सातसौख्यप्रतिबद्ध' इति सातात्-पुण्यप्रकृतेः सकाशाद्यत्सौख्यं-सुखं गन्धरसस्पर्शलक्षणं विषयसम्पाद्यं तत्र प्रतिबद्धः-तत्सरो ब्रह्मचारी, सातग्रहणादुपशमसौख्य प्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवति ९ । उक्तविपरीताः अगुप्तयोडप्येवमेवेति । उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्य जिनैरभिहितमिति जिनविशेषौ प्रकृताध्ययनावतारद्वारेणाह
अभिणंदणाओ णं अरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं बिइकतेहिं समुप्पन्ने (सू० ६६४) नव सब्भावपयत्था पं० सं०-जीवा अजीवा पुण्णं पावो आसवो संवरो निजरा बंधो मोक्खो ९ (सू० ६६५) णवविहा
९ स्थाना० उद्देशः३ जिनान्तरं तत्त्वानि सर्वजीवाः रोगहेतवः सू०६६४
६६५
॥४४५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org