________________
धूर्त-सङ्गानां त्वजनं तत्प्रतिपादक धूतमिति ६ 'विमोहोत्ति मोहसमुत्थेषु परीपहोपसर्येषु प्रादुर्मूषु विमोहो भवेत तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७ महावीरासेवितस्योपधानस्य-तपसः प्रतिपादक श्रुत-ग्रन्थ उपधान
श्रुतमिति ८ महती परिज्ञा-अन्तक्रियालक्षणा सम्यग्विधेयेतिप्रतिपादनपरं महापरिज्ञेति ९ ब्रह्मचर्यशब्देन मैथुनवि-||४ IM रतिरप्यभिधीयत इति ब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह-नवे'त्यादि, ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयो-रक्षाप्रकाराः ब्रह्म
चर्यगुप्तयः, 'विविक्तानि स्त्रीपशुपण्डकेभ्यः पृथग्वतींनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च 'सेविता' तेषां सेवको भवति ब्रह्मचारी, अन्यथा तबाधासम्भवात्, एतदेव सुखार्थ व्यतिरेकेणाह-नो स्त्रीससक्कानि-नो देवीनारीतिरश्चीभिः समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभिः-गवादिभिः, तत्संसक्तौ हि तत्कृतविकारदर्शनात् मनोविकारः सम्भाव्यत इति, पण्डकाः-नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एवेत्येकम् । |१, नो स्त्रीणां केवलानामिति गम्यते 'कथा' धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा 'कर्णाटी सुरतोपचारकु|शला लाटी विदग्धप्रिया' इत्यादिकां प्रागुक्तां वा जात्यादिचातूरूपां कथयिता-तत्कथको भवति ब्रह्मचारीति द्वितीयं |२, 'नो इत्थिगणाई'तीह सूत्रं दृश्यते केवलं 'नो इत्थिठाणाईति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्र-12 |मानुसारित्वाच्चास्येतीदमेव व्याख्यायते-नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि-निषद्याः स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः?-स्त्रीभिः सहकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहूर्त नोषविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति ३ नो स्त्रीणामिन्द्रियाणि-नयननासिकादीनि मनो ह-15
BASIRSAHASRA
NS
Jain Education
For Personal & Private Use Only
R
anelibrary.org