________________
तथाभूतेन कथं नु?-केन प्रकारेण साधम्मिकाः-साधवोऽल्पशब्दाः-विगतराटीमहाध्वनयः अल्पझंझा-विगततथाविधविप्रकीर्णवचनाः अल्पतुमन्तुमाः-विगतक्रोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्युस्थातव्यं भवतीति । अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिबद्धाष्टकमाह-महामुक्के'त्यादि कण्ठ्यं, अनन्त-18 रोक्तविमानवासिदेवैरपि वस्तुविचारे न जीयन्ते केचिद्वादिन इति तदष्टकमाह-अरहओं' इत्यादि, सुगमं । एतेषां च नेमिनाथस्य विनेयानां मध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणार्थ केवलिसमुद्घातं कृतवानिति समुद्घातमाह
अट्ठसमतिए केवलिसमुग्घाते पं० तं०-पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समते मंथानं करेति चउत्थे समते लोग पूरेति पंचमे समए लोगं पडिसाहरति छढे समए मंथं पडिसाहरति सत्तमे समए कवाडं पडिसाहरति अट्ठमे समए दंडं पडिसाहरति (सू० ६५२) 'अढे'त्यादि, तत्र समुद्घातं प्रारभमाणः प्रथममेवावजीकरणमभ्येति, अन्तमौहूर्तिकं उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोका-2
न्तगामिनं जीवप्रदेशसङ्घातं दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् दिपार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीये तदेव दक्षिणोत्तरदिग्द्वये प्रसारणान्मन्थानं करोति लोकान्त
प्रापिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशा
CAREAK
JainEducation
For Personal & Private Use Only
nelibrary.org