________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३०३ ॥
Jain Education
वानीकं पादातानीकं पीठानीकं - अश्वसैन्यं, पादातानीकाधिपतिः पदातिरेवोत्तमः, अश्वराजः प्रधानोऽश्वः, एवमन्येऽपि, 'दाहिणिल्लाणं'ति सनत्कुमारब्रह्मशुक्रानतारणानां, 'उत्तरिल्लाणं ति माहेन्द्रलान्तकसहस्र र वाणताच्युतानामिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोकशुक्रौ दा क्षिणात्यावुक्तौ, समसङ्ख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तकसहस्रारावुत्तराविति, तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याद्युक्तमिति सम्भाव्यते, अन्यथा चतुषु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति । इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्तद्ग ते स्थित्यादिप्रतिघातो भवतीति तन्निरूपणायाह
पंचविधा पडिहा पं० तं० – गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा बलवीरितपुरिसयारपरकम पडिहा ( सू० ४०६ ) पंचविधे आजीविते पं० तं० – जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे ( सू० ४०७ ) पंच रातककुहा पं० तं० खग्गं छत्तं उप्फेसं उपाणहाओ वालवीअणी ( सू० ४०८ ) 'पंचविहा पडिहे 'त्यादि सुगमं, नवरं 'पडिह'त्ति प्राकृतत्वात् उप्पा इत्यादिवत्प्रतिघातः प्रतिहननमित्यर्थः, तत्र गतेः - देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातः- तत्प्राप्तियोग्यत्वे सति विकर्मकरणादप्राप्तिर्गतिप्रतिघातः, प्रत्रज्यादिपरिपालनतः प्राप्तव्यशुभदेवगतेर्नरकप्राप्तौ कण्डरीकस्येवेति, तथा स्थितेः- शुभदेवगतिप्रायोग्यकर्म्मणां व प्रतिघातः स्थितिप्रतिघातः, भवति चाध्यवसायविशेषात्स्थितेः प्रतिघातो, यदाह - "दीहकालठिइयाओ इस्सकालठियाओ पकरेइ"
For Personal & Private Use Only
५ स्थाना०उद्देशः १ प्रतिघाताआजीव
काराज
चिह्नानि
सू० ४०६०
४०८
॥ ३०३ ॥
www.jainelibrary.org