________________
इति, [दीर्घकालस्थितिकाः इस्वकालस्थितिकाः प्रकरोति प्रकृती ॥ तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधं तस्य प्रक्रमात् प्रशस्तस्य प्राग्वत प्रतिघातो बन्धनप्रतिघातो, बन्धनग्रहणस्योपलक्षणत्वात् तत्सहचरप्रशस्तशरीरतदङ्गोपाङ्गसंहननसंस्थानानामपि प्रतिघातो व्याख्येयः, तथा प्रशस्तगतिस्थितिबन्धनादिप्रतिघाताद् भोगाना-प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातो, भवति हि कारणाभावे कायर्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव बलवीर्यपुरुषकारपराक्रमप्रतिघातो भवतीति प्रतीतं, तत्र बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार:-अभिमानविशेषः पराक्रमः स एव निष्पादितस्वविषयोऽथवा पुरुषकार:-पुरुषकर्त्तव्यं पराक्रमो-बलवीययोव्योपारणमिति । |देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह-पंचविहे'त्यादि, जाति-ब्रा| ह्मणादिकामाजीवति-उपजीवति तज्जातीयमात्मानं सूचादिनोपदय ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं कुलम्-उग्रादिकं गुरुकुलं वा कर्म-कृष्याद्यनाचार्यकं वा शिल्प-तूर्णनादि साचार्यकं वा लिङ्ग-साधुलिङ्गं तदाजीवति, ज्ञानादिशून्यस्तेन जीविकां कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते, यत उक्तम्-"जाईकुलगणकम्मे सिप्पे आजीवणा उ पंचविहा । सूयाए असूयाए अप्पाण कहेइ एक्केके ॥१॥" त्ति, [आत्मनो जातिकुलगणकर्माणि शिल्पं वा सूचयाऽसूचया वैकैकं कथयतीति पंचविधा आजीवकाः॥१॥] तत्र गणो-मल्लादिः, सूचया-व्याजेनासू-1 चया-साक्षात् । अनन्तरं साधूनां रजोहरणादिकं लिङ्गमुक्तं, अधुना खड्गादिरूपं राज्ञां तदेवाह-पंच रायककुभा' इत्यादि व्यक्तं, नवरं राज्ञां-नृपतीनां ककुदानि-चिह्नानि राजककुदानि, 'उप्फेसित्ति शिरोवेष्टनं शेखरक इत्यर्थः,
dain Education
For Personal & Private Use Only
NKMlainelibrary.org