SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ स्सइ'त्ति बादरवनस्पतिः, कन्दः-स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतं त्वक्-छल्ली शाला-शाखा प्रवालं-अङ्करः पत्रपुष्पे प्रतीते । एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरिन्द्रियानाश्रित्य संयमासंयमसूत्रे, ते च प्रागिवेति । सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह-'अट्ट सुहुमे'त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च, तत्र प्राणसूक्ष्मअनुद्धरिः कुन्थुः स हि चलन्नेव विभाव्यते न स्थितः सूक्ष्मत्वादिति १ पनकसूक्ष्म पनकः-उल्ली, स च प्रायः प्रावृट्रकाले भूमिकाष्ठादिषु पञ्चवर्णस्तव्यलीनो भवति, स एव सूक्ष्ममिति एवं सर्वत्र २ तथा बीजसूक्ष्म-शाल्यादिबीजस्य मुखमुले कणिकाः लोके या तुषमुखमित्युच्यते ३ हरितसूक्ष्म-अत्यन्ताभिनवोद्भिन्नपृथिवीसमानवर्ण हरितमेवेति ४ पुष्पसूक्ष्म-वटोदुम्बराणां पुष्पाणि तानि तद्वर्णोनि सूक्ष्माणीति न लक्ष्यन्ते ५ अण्डसूक्ष्म-मक्षिकाकीटिकागृहकोकिलाब्राह्मणीकृकलास्याद्यण्डकमिति ६ लयनसूक्ष्मं लयनं-आश्रयः सत्त्वानां, तच्च कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवंतीति ७ स्नेहसूक्ष्ममवश्यायहिममहिकाकरकहरतनुरूपमिति ८ । अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह-भरहस्से'त्यादि कण्ठ्यं, किन्तु 'पुरिसजुगाईति पुरुषा युगानीव-कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि 'अनुबई' सन्ततं यावत्करणात् 'बुद्धाई मुक्काई परिनिव्वुडाईति, एतेषां चादित्ययश:प्रभृतीनामिहोतक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि-"राया आइच्चजसे महाजसे अइबले अ बलभदे। बलविरियकत्तविरिए जलविरिए दंडविरिए य ॥१॥” इति [आदित्ययशा राजा महायशा अतिबल: बलभद्रः बलवीर्यः कार्तवीर्यः जलवीर्यः दंडवीर्यः॥१॥] इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भाव्यत Jain Education For Personal & Private Use Only mainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy