SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ भती-पोषणे साध कुमारभृत्यं, तद्धि तन्त्रं कुमारभरणक्षीरदोषसंशोधनार्थ दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थ चेति १ कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं कायचिकित्सा, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां ज्वरातीसाररक्तशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति २ शलाकायाः कर्म शालाक्यं. तत्प्रतिपादकं तन्त्रं शालाक्यं, एतद्धि ऊदचक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति ३ शल्यस्य हत्या-हननमुद्धारः शल्यहत्या तत्प्रतिपादकं तन्त्रमपि शल्यहत्येत्युच्यते, तद्विधतृणकाष्ठपाषाणपांसुलोहलोष्ठास्थिनखप्रायाऽङ्गान्तर्गतशल्योद्धरणार्थमिति ४ 'जङ्गोली'ति विषविघाततन्त्रमगदतन्त्रमित्यर्थः, तद्धि सर्पकीटलूतादष्टविषनाशनार्थ विविधविषसंयोगोपशमनार्थ चेति ५भूतादीनां निग्रहार्थ विद्यातन्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्ति कर्मबलिकरणादिग्रहोपशमनार्थेति ६ 'क्षारतन्त्र'मिति क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत्र तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति ७ रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनं, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च तत्प्रतिपादक शास्त्रं रसायनतन्त्रमिति ॥ कृतरसायनश्च देववन्निरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह सकस्स णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं० तं०-पउमा सिवा सती अंजू अमला अच्छरा णवमिया रोहिणी १ ईसाणस्स णं देविंदुस्स देवरन्नो अट्ठग्गमहिसीओ पं०२०-कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुमित्ता dain Education AS For Personal & Private Use Only Anlinelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy