SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ MASASARAMAT - "अस्थिध्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥" इत्यादि ७, व्यञ्जन-मषादि, यथा-'ललाटकेशः प्रभुत्वाय'त्यादि ८॥ एतानि च शास्त्राणि वचनविभक्तियोगेनाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह-'अट्टविहा वयणविभत्ती'त्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽर्थों यैस्तानि वचनानि विभज्यते कर्तृत्वकर्मत्वादिलक्षणोऽर्थों यया सा विभक्तिः वचनात्मिका विभक्तिर्वचनविभक्तिः, 'सु औ जसि'त्यादि, 'निइसे सिलोगो, निर्देशनं निर्देशः-कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादन तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १, तथा उपदिश्यत इत्युपदेशनं-उपदेशक्रियाया व्याप्यमुपलक्षणत्वादस्य क्रियाया ययाप्यं तत् कम्र्मेत्यर्थस्तत्र द्वितीया, यथा भण इमं श्लोकं कुरु वा तं घटं ददाति तं याति ग्राम |२, तथा क्रियते येन तत्करणं-क्रियां प्रति साधकतमं करोतीति वा करणः-कर्ता 'कृत्यल्युटो बहुल' (पा. ३-३-११३) मिति वचनादिति, तत्र करणे तृतीया कृता-विहिता, यथा नीतं सस्यं तेन शकटेन कृतं कुण्डं मयेति ३, तथा 'संपदावणेत्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमःस्वस्तिस्वाहास्वधाऽलंवषड्युक्ताच्च चतुर्थी भवति, नमः शाखायै-वैरादिकायै, नमःप्रभृतियोगोऽपि कैश्चित्सम्प्रदानमभ्युपगम्यते इति चतुर्थी ४, 'पञ्चमी ति श्लोकः, अपादीयते । अपायतो-विश्लेषत आ-मर्यादया दीयते 'दो अवखण्डन' इति वचनात् खण्ड्यते-भिद्यते आदीयते वा-गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थस्तत्र पञ्चमी भवति, यथा-अपनय ततो गृहाद्धान्यमितो वा कुशलाद्गृहाणेते ५, पियतिपत यस्माया कृता-तम करोती स्था०७२ Jain Education For Personal & Private Use Only jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy