SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Educatio आलोयणारि पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलरिहे ( सू० ६०५ ) अट्ठ मतडाणा पं० वं०—जातिमते कुलमते बलमते रूवमते तव० सुत० लाभ० इस्सरितमते ( सू० ६०६ ) 'अट्टही’त्यादि सुगमं, नवरं ‘आयारवं 'ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनार्थ्या, 'आहारव'न्ति अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च - " आयारवमायारं पंचविहं मुणइ जी अ आयरइ । आहारवमवहारे आलोइंतस्स सव्वंति ॥ १॥” [आचारवानाचारं पंचविधं जानाति यश्चाचरति आधारवानवधारयत्यालोचयतः सर्वमपि ॥१॥ ] 'ववहारवं 'ति आगमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां ज्ञातेति, 'ओवी - लए 'त्ति अपनीडयति-विलज्जीकरोति यो लज्जया सम्यगनालोचयन्तं सर्वे यथा सम्यगालोचयति तथा करोतीत्यपत्रीडकः, अभिहितं च - " वषहारव ववहारं आगममाई उ मुणइ पंचविहं । ओवीलुवगूहतं जह आलोएइ तं सव्वं ॥ १ ॥” ति [ व्यवहारवान् व्यवहारमागमादिपंचविधं जानाति अपनीडयत्यनालोचयन्तमालोचयति यथा तत् सर्वे ॥ १॥ ] 'पकुव्वए 'त्ति आलोचिते सति यः शुद्धिं प्रकर्षेण कारयति स प्रकारीति, भणितं च - " आलोइयमि सोहिं जो कारावेह सो पकुवीओ ॥” इति, [ आलोचिते यः शोधिं कारयति स प्रकारी ।] 'अपरिस्साइ त्ति न परिश्रवति-नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति, यदाह - " जो अन्नस्स उ दोसे न कहेई य अपरिसाई सो होई ॥” [योऽन्यस्य दोषान् न कथयति एषोऽपरिश्रावी भवति ॥ १ ॥ ] इति, 'निज्जवए' त्ति निर्यापयति तथा करोति यथा | गुर्व्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति, न्यगादि च - "निज्जवओ तह कुणई निव्वहई जेण पच्छि onal For Personal & Private Use Only jalnelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy