________________
त्वात् ज्योतिषा-वह्निना भूतानि-जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुल्लं-पलासकुसुमं तत्समानानि रक्ततया उल्का इव उल्का-अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापकं विनिर्मुश्चन्ति विनिर्मुश्चन्तीति भृशार्थे द्विर्वचनं अङ्गारा-लघुतराग्निकणास्तत्सहस्राणि प्रविकिरन्ति २'अंतो अंतो' अन्तरन्तः 'झियायंति' मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तो, दान्तिकस्त्वेवमेवेत्यादि, पश्चात्तापाग्निना ध्मायति-जाज्वल्यते, "अहमेसे'त्ति अहमेषोऽभिशाचे अहमेषोऽभिशक्य इति-एभिरहं दोषकारितया आशये-सम्भाव्ये इति, उक्तं हि-"निच्चं संकियभीओ गम्मो सव्वस्स खलियचारित्तो। साहुजणस्स अवमओ मओऽवि पुण दुग्गइं जाइ ॥१॥" [नित्यं शङ्कितभीतो गम्यः सर्वस्य स्खलितचारित्रः साधुजनेनावमतः मृतोऽपि पुनर्दुर्गतिं याति ॥१॥] अनेनानालोचकस्यायं लोको गर्हितो भवतीति दर्शितं, 'से णं तस्सेत्यादिना पाठान्तरेण मायी णं मायं कट्ठ इत्यादिना वा उपपातो गर्हितो भवतीति दयते, 'कालमासे'त्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते 'कालं किच्चा'मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां 'देवलोकेषु' देवजनेषु मध्ये 'उववत्तारोत्ति वचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषु परिवारादिऋख्या नो महाद्युतिषु शरीराभरणादिदीप्त्या नो महानुभागेषु वैक्रियादिशक्तितः नो महाबलेषु-प्राणवत्सु नो महासौख्येषु नो महेशाख्येषु वा नो दूरंगतिकेषु-न सौधर्मादिगतिषु नो चिरस्थितिकेषु-एकब्यादिसागरोपमस्थितिकेषु यापि च 'सें तस्य 'तत्र' देवलोकेषु 'बाह्या' अप्रत्यासन्ना दासादिवत् 'अभ्यन्तरा' प्रत्यासन्ना पुत्रकलत्रादिवत् 'परिषत्' परिवारो भवति सापि 'नो आ-5 द्रियते' नादरं करोति, 'नो परिजानाति' स्वामितया नाभिमन्यते 'नो नैव महच्च तदर्ह च-योग्यं महार्ह तेनासने-|
Jain Education I
nal
For Personal & Private Use Only
www.jainelibrary.org