________________
श्रीस्थाना-
वृत्तिः
॥४१९॥
दोषाः
एकामपीत्यादिना त्वर्थप्राप्तिरुक्तेति, यदाह-"उद्धरियसव्वसल्लो भत्तपरिन्नाएँ धणियमाउत्तो । मरणाराहणजुत्तो चं- ८ स्थाना० दगवेझं समाणेइ ॥१॥” इति, [उद्धृतसर्वशल्यः भक्तपरिज्ञायां गाढमायुक्तः मरणाराधनायुक्तः चन्द्रकवेध्यं संपूर- | उद्देशः३ यति ॥१॥] पञ्चममपि, एवं बहुत्वेनापि अनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्च षष्ठसप्तमे, तथाऽऽचार्योपाध्यायस्य।
आलोचवा मे अतिशेष ज्ञानदर्शनं समुत्सद्येत, स च मामालोकयेत् माई णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमं, शेष केतरगुणसूत्रं 'अयं लोक उपपात आजातिश्च गर्हिते'त्यस्य पदत्रयस्य विवरणतया अवगन्तव्यं, तत्र मायी मायां कृत्वेति, इह कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्यः, 'स' इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे 'नामए'त्ति स- सू०५९७ म्भावनायामलङ्कारे वा अयआकरो-लोहाकरः यत्र लोहं ध्मायते इतिरुपदर्शने वा विकल्पे तिला-धान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्निः-तद्दहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अप्यग्निविशेषाः, नवरं तुषाः कोद्रवादीनां बुसंयवादीनां कडङ्गरो नल:-शुषिरसराकारः दलानि-पत्राणि सुण्डिका:-पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवेल्यो वा सम्भाव्यन्ते तासां लिंछाणि-चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धैः-"गोलियसोडियभंडियलिच्छाणि अग्नेराश्रयाः" अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकानयादिभेदा इत्युक्तं, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भ-18 |ण्डिका-स्थाल्यः ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयं, लिंछानि तान्येवेति, कुम्भकारस्यापाको-भाण्डपचनस्थानं कवेल्लकानि-प्रतीतानि तेषामापाक:-प्रतीत एव 'जंतवाडचुल्ली' इक्षुयन्त्रपाटचुल्ली 'लोहारंबरिसाणि वत्ति लोहकारस्याम्बरीषा-भ्राष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तप्तानि-उष्णानि समानि-तुल्यानि जाज्वल्यमान
॥४१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org