________________
श्रीस्थाना
सूत्रवृत्तिः
अनेनोपपातगहआयुःकर्मपुद्गलाकर्मणां वा
८ स्थाना० उद्देशः ३ आलोच| केतरगुण
दोषाः सू० ५९७
॥४२०॥
नोपनिमन्त्रयते, किंबहुना ?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चाः देवा भाषणनिषेधायाभ्युत्तिष्ठन्ति-प्रयतन्ते, कथं ?, 'मा बहु'मित्यादि, अनेनोपपातगोक्ता, आजातिगर्हितत्वं तु से 'मित्यादिनाऽऽचष्टे, 'से'त्ति सोऽनालोचकस्ततोव्यन्तरादिरूपाद् देवलोकादवधेः आयुःकर्मपुद्गलनिर्जरणेन भवक्षयेण-आयुःकर्मादिनिबन्धनदेवपर्यायनाशेन स्थितिक्षयेण-आयुःस्थितिबन्धक्षयेण देवभवनिवन्धनशेषकर्मणां वा, अनन्तरं-आयुःक्षयादेः समनन्तरमेव 'च्यवं' च्यवनं 'च्युत्वा' कृत्वा 'इहैव' प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु कुलेषु कुटुम्बकेषु अन्वयेषु वा किंविधेषु?-'यानि इमानि' वक्ष्यमाणतया च प्रत्यक्षाणि भवन्ति, तद्यथा-अन्तकुलाणि-वरुटछिपकादीनां प्रान्तकुलानि-चण्डालादीनां तुच्छकुलानि-अल्पमानुषाणि अगम्भीराशयानि वा दरिद्रकुलानि-अनीश्वराणि कृपणकुलानि-तर्क णवृत्तीनि नटनग्नाचार्यादीनां भिक्षाककुलानि-भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा 'पुमि'त्ति पुमान् 'अणिढे'त्यादि इष्यते स्म प्रयोजनवशादितीष्टः कान्तः-कान्तियोगात् प्रियः-प्रेमविषयः मनोज्ञः-शुभस्वभावः मनसाअम्यते-गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः एतन्निषेधात् प्रकृतविशेषणानि तथा हीनस्वरः-इस्वस्वरस्तथा दीनो-दैन्यवान् पुरुषस्तत्सम्बन्धित्वात्स्वरोऽपि दीनः स स्वरो यस्य स तथा, | अनादेयवचनश्चासौ प्रत्याजातश्चेति अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजातः सन्निति, शेष कण्ठ्यं यावद् "भास'त्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति, 'मायीत्यादिना आलोचकस्येहलोकादिस्थानत्रयागस्तित्वमुकविपर्ययस्वरूपमाह-हारेण विराजितं वक्षः-उरो यस्य स तथा कटकानि प्रतीतानि तुटितानि-बाह्वाभरणविशेषास्तैः
॥४२०॥
in Education
For Personal & Private Use Only
www.jainelibrary.org