________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४१० ॥
Jain Education
तत्र 'बहुरय'त्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रताः - सका बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, तथा जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः अथवा जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयं, तथा अव्यक्तं - अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना, तथा समुच्छेदः - प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो- विनाशः समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः, तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, तथा जीवाजीवन जीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः, तथा स्पृष्टं जीवेन कर्म्म न स्कन्धबन्धवद्वद्धमबद्धं तदेषामस्तीत्यबद्धिकाः स्पृष्टकर्मविपाकप्ररूपका इति हृदयं, 'धम्मायरियत्ति धर्मः - उक्तप्ररूपणादिलक्षणः श्रुतधर्म्मस्तत्प्रधानाः प्रणायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारो, यो हि श्रमणस्य भगवतो महावीरस्य भागिनेयो भगवद्दुहितुः सुदर्शनाभिधानाया भर्त्ता पुरुषपञ्चशतीपरिवारो भगवत्प्रब्राजित आचार्यत्वं प्राप्तः श्रावस्त्यां नगर्यौ तेन्दुके चैत्ये विहरन्ननुचिताहारादुत्पन्नरोगो वेदनाभिभूततया शयनार्थं समादिष्ट संस्तारक संस्तरणः कृतः संस्तारकः ? इति विहितपरिप्रश्नः संस्तारककारिसाधुना संस्त्रियमाणत्वेऽपि संस्तृत इतिदत्तप्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्धिः प्ररूपयामास-यत् | क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् अश्रावणशब्दवत्, प्रत्यक्षविरुद्धता चास्यार्द्धसंस्तृतसं
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३
निह्नव
स्वरूपं
सू० ५८७
॥ ४१० ॥
Kainelibrary.org