SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ तसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धतः आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्नद्धान शातयति, यथोक्तम्-“वेउब्वियसमुग्घाएणं समोहन्नइ समोहणित्ता संखेजाई जोयणाई दंडं निसरइ २त्ता अहाबायरे पुग्गले परिसाडेइ"त्ति, [वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्ग्येययोजनप्रमाणं दंडं निसृजति निसृज्य प्राग्बद्धान् यथास्थूलान् पुद्गलान् परिशाटयति ॥१॥]एवं तेजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति । चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह –'मणुस्साणं सत्ते'त्यादि, 'एवं चेव'त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति । एतच्च समुद्घातादिक | जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवतणनिण्हगा पं०, तं०-बहुरता जीवपतेसिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता हुत्था, तं०-जमालि तीसगुत्ते आसाढे आसमित्ते गंगे छलुए गोट्ठामाहिले, एतेसि णं सत्तण्हं पवयणनिण्हगाणं सत्तुप्पत्तिनगरा होत्था, तं०-सावत्थी उसभपुरं सेतविता मिहिलमुल्लगातीरं । पुरिमंतरंजि दसपुर णिण्हगउप्पत्तिनगराई ॥ १ ॥ (सू० ५८७) 'समणेत्यादि कण्ठ्यं, नवरं प्रवचन-आगमं निहुवते-अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिवाः प्रज्ञप्ता जिनैः, स्था० ६९ Jain Educati o nal For Personal & Private Use Only RMw.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy