SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ निरोधः कुशलानां उदीरणं च तथा ॥ १ ॥ ] लोकानामुपचारो - व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः । मनोवाक्कायविनयान् प्रशस्ता प्रशस्त भेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनयं च सप्तधैवाह - 'पसत्थमणे' त्यादि, सूत्रसप्तकं सुगमं, नवरं प्रशस्तः - शुभो मनसो विनयनं विनयः प्रवर्त्तनमित्यर्थः प्रशस्तमनोविनयः, तत्र अपापकः - शुभचि तारूपः असावद्यः - चौर्यादिगर्हितकर्मानालम्बनः अक्रियः - कायिक्याधिकरणिक्यादिक्रियावर्जितो निरुपक्लेशः - शोकादिबाधावर्जितः 'स्तु प्रश्रवण' इति वचनात् आस्तवः - आश्रवः कर्मोपादानं तत्करणशील आस्नवकरस्तन्निषेधादनास्तवकरः - प्राणातिपाताद्याश्रववर्जित इत्यर्थः, अक्षयिकरः - प्राणिनां न क्षयेः - व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो-न भूतान्यभिशङ्कन्ते-बिभ्यति यस्मात् स तथा अभयङ्कर इत्यर्थः, एतेषां च प्रायः सदृशार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोs - वगन्तव्योऽन्यथा वेति, एवं शेषमपि । आयुक्तं गमनं आयुक्तस्य- उपयुक्तस्य सँलीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानं-ऊर्द्धस्थानं कायोत्सर्गादि 'निसीयणं' ति निषदनं - उपवेशनं 'तुयहणं' शयनं 'उल्लङ्घनं' डेवनं देहल्यादेः प्रलङ्घनंअर्गलादेः सर्वेषामिन्द्रियाणां योगा-व्यापाराः सर्वे वा ये इन्द्रिययोगास्तेषां योजनता- करणं सर्वेन्द्रिययोगयोजनता । 'अन्भासवत्तियं' ति प्रत्यासत्तिवर्त्तित्वं श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, 'परच्छंदाणुवत्तिय'न्ति पराभिप्रायानुवर्त्तित्वं, 'कज्जहेउ'ति कार्यहेतोः, अयमर्थः - कार्य - श्रुतप्रापणादिकं हेतुं कृत्वा, श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थी, विशेषेण विनये तस्य वर्त्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा 'कृतप्रतिकृतिता' कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं - प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्य Jain Educational For Personal & Private Use Only Jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy