SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ४०८ ॥ इह च सत्कारः - स्तवन वन्दनादि अभ्युत्थानं - विनयार्हस्य दर्शनादेवासनत्यजनं सन्मानो - वस्त्रपात्रादिपूजनं आसनाभिग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशतात्रेति भणनं आसनानुप्रदानं तु-आसनस्य स्थानात्स्थानान्तरसञ्चारणं कृतिकर्म-द्वादशावर्त्तवन्दनकं, शेषं प्रकटमिति । उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः, अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविधः, आह च – “तित्थगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥ १ ॥ [ तीर्थंकराचार्यधर्मवाचकस्थविरकुलगणसंघानां सांभोगिकानां क्रियावादिनां मत्यादिज्ञानानां च तथैव ॥ १ ॥ ] साम्भोगिका - एकसामाचारीकाः क्रिया - आस्तिकता, अत्र भावना - तीर्थकराणामनाशातनायां तीर्थकर प्रज्ञप्तधर्म्मस्यानाशातनायां वर्त्तितव्यमि - त्येवं सर्वत्र द्रष्टव्यमिति, “कायव्वा पुण भत्ती बहुमाणो तहय वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ १ ॥” [ अर्हदादीनां केवलज्ञानावसानानां पंचदशानां भक्तिः कर्त्तव्या पुनर्बहुमानः तथा च वर्णवादश्च ॥ १ ॥ ] उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः, आह च - "सामाइयादिचरणस्स सद्दहणया १ तहेव कारणं । संफासणं २ परूवण ३ मह पुरओ भव्वसत्ताणं ॥ १ ॥” इति, [ सामायिकादिचारित्रस्य श्रद्धानं तथैव कायेन स्पर्शना अथो भव्यानां पुरतः प्ररूपणा सत्त्वानां ॥ १ ॥ ] मनोवाक्कायविनयास्तु मनःप्रभृतीनां विनयार्हेषु कुशलप्रवृत्त्यादिः, उक्तं च - " मणवइकाइयविणओ आयरियाईण सव्वकालंपि । अकुसलाण निरोहो कुसलाणमुईरणं तहय ॥ १ ॥ [सर्वकालमपि आचार्याणां मनोवाक्कायिकविनयः यदकुशलानां Jain Educationemasonal For Personal & Private Use Only ७ स्थाना० उद्देशः ३ विनयः सू० ५८५ ॥ ४०८ ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy