SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ लाप' इति वचनात् स एव कुत्सितोऽनुल्लापः, क्वचित्पुनरनुलाप इति पाठस्तत्रानुलापः-पौनःपुन्यभाषणं "अनुलापो मुहुर्भाषा" इति वचनात् , सल्लापः-परस्परभाषणं "संलापो भाषणं मिथः" इति वचनात्, प्रलापो-निरर्थकं वचनं "प्रलापोऽनर्थकं वचः" इति वचनात् स एव विविधो विप्रलाप इति ॥ एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा | विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह-'सत्तविहे त्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः प्रज्ञप्तस्तद्यथा-ज्ञान-आभिनिबोधिकादि पञ्चधा तदेव विनयो ज्ञानविनयो ज्ञानस्य वा विनयो-भत्त्यादिकरणं ज्ञानविनयः, उक्तं च-"भत्ती १ तह बहुमाणो २ तद्दिद्वत्थाण सम भावणया ३ । विहिगहण ४ ब्भासोऽविय ५ एसो विणओ जिणाभिहिओ ॥१॥"[भक्तिस्तथा बहुमानं तदृष्टार्थानां सम्यग्भावना विधिना ग्रहणं अभ्यासोऽपि च एष | विनयो जिनाख्यातः॥१॥] दर्शन-सम्यक्त्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा-तदव्यतिरेकादर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः, उक्तं च-"सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएK कज्जइ सुस्सूसणाविणओ ॥१॥ सक्कार १ ब्भुट्ठाणे २ सम्माणा ३ सणअभिग्गहो तह य ४ । आसणमणुप्पयाणं ५ कीकम्मं ६ अंजलिगहो य ७॥२॥ इंतस्सऽणुगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥३॥” इति, [शुश्रूषणाऽनाशातना च विनयस्तु दर्शने द्विविधः। दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः॥१॥ सत्कारोऽभ्युत्थानं सन्मान आसननिमन्त्रणा तथा च आसनसंक्रामणं कृतिकर्म अंजलिग्रंहश्च ॥२॥ आगच्छतोऽभिवजनं स्थितस्य तथा पर्युपासना भणिता गच्छतोऽनुव्रजनं एष शुश्रूषणाविनयः ॥३॥] ॥ इंतस्सर सम्माणा ३ साउदसणे दुविहो। Jain Education s anal For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy