SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ स्थप्रतिबद्धं सूत्रद्वयं, विपर्ययसूत्रं च 'छउमत्थे'त्यादि सुगम, नवरं छद्मनि-आवरणद्वयरूपे अन्तराये च कर्मणि तिष्ठदतीति छद्मस्थः-अनुसन्नकेवलज्ञानदर्शनः स चासौ वीतरागश्च-उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इ त्यर्थः, 'सत्तत्ति मोहस्य क्षयादुपशमाद्वा नाष्टावित्यर्थः, अत एवाह-'मोहणिज्जवजाउ'त्ति । एतान्येव च जिनो जानातीत्युक्तं, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांश्चाह-'समणे इत्यादि सूत्रद्वयं सुगम, नवरं 'विकहाउ'त्ति चतस्रः प्रसिद्धाः व्याख्याताश्चेति 'मिउकालुणिय'त्ति श्रोतृहृदयमाईवजननात् मृद्वी सा चासौ कारुणिकी च-कारुण्यवती मृदुकारुणिकी-पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा-"हा पुत्त पुत्त हा वच्छ! वच्छ मुक्कामि कहमणाहाहं? । एवं कलुणविलावा जलंतजलणेऽज सा पडिया ॥१॥" इति, [हा पुत्र पुत्र हा वत्स ? वत्स कथमनाथाऽहं मुक्ताऽस्मि ? । एवं कारुणिकप्रलापा ज्वलज्ज्वलने साऽद्य पतिता ॥१॥]] दर्शनभेदिनी ज्ञानाद्यतिशयितकुतीर्थिकप्रशंसादिरूपा, तद्यथा-'सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिदृष्ट, श्रोतव्यं बौद्धशासनम् ॥ १॥' इत्यादि, एवं हि श्रोतृणां तदनुरागात् सम्यग्दर्शनभेदः स्यादिति, चारित्रभेदिनी न सम्भवन्तीदानी महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारकसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थ वर्तत इति ज्ञानदर्शनकर्त्तव्येष्वेव यत्नो विधेय इति, भणितं च-"सोही य नत्थि नवि दित करेंता नविय केइ दीसंति । तित्थं च नाणदंसण निजवगा चेव वोच्छिन्ना ॥१॥” इत्यादि, [नास्ति च शोधिर्नापि दातारः नापि च केचिदपि कर्त्तारो दृश्यन्ते ज्ञानदर्शनाभ्यां तीर्थ च नियामका व्युच्छिन्नाः॥१॥] अनया हि प्रथा०६८ Jain Education memorial For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy