________________
दारिकस्य शरीरस्य खेलवान्तपित्तशुक्रशोणितपूयाश्रवस्य दुरन्तोच्छासनिश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्य शटनपतनविध्वंसनधर्मकस्य परिणामो भविष्यतीति?, ततो मा यूयं मानुष्यककामेषु सजत, किं च-"किं थ तयं पम्हुढं जं थी तया भो जयंतपवरंमि । वुच्छा समयनिबद्धं देवा! तं संभरह जाई ॥१॥” इति [किञ्च तद्विस्मृतं यत्तदा जयंतप्रवरे | विमाने व्युषिताः समयनिबद्धं तां जातिं देवा भो संस्मरत ॥१॥] भणिते सर्वेषामुसन्नं जातिस्मरणं, अथ मल्लिरवादीत्-अहं भोः! संसारभयात् प्रव्रजिष्यामि, यूयं किं करिष्यथ?, ते ऊचुः-वयमप्येवं, ततो मल्लिरवोचत्-यद्येवं ततो गच्छत स्वनगरेषु स्थापयत पुत्रान् राज्येषु ततः प्रादुर्भवत ममान्तिकमिति, तेऽपि तथैव प्रतिपेदिरे, ततस्तान् मल्ली गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्य तान् पादयोः पातयामास, कुम्भकराजोऽपि तान् महता प्रमोदेनापूपुजत् स्वस्थानेषु च विससर्जेति, मल्ली च सांवत्सरिकमहादानानन्तरं पोषशुद्धैकादश्यामष्टमभक्तनाश्विनीनक्षत्रे तैः षभिर्नृपतिभिनन्दनन्दिमित्रादिभिर्नागवंशकुमारैस्तथा बाह्यपर्षदा पुरुषाणां त्रिभिः शतैरभ्यन्तरपर्षदा च त्रीणां त्रिभिः शतैः सह प्रवव्राज, उत्पन्नकेवलश्च तान् प्रव्राजितवानिति । एते च सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह
सत्तविहे दसणे पं०, तं०-सम्मईसणे मिच्छदसणे सम्मामिच्छदंसणे चक्खुदंसणे अचक्खुदसणे ओहिदसणे केवलदसणे (सू० ५६५) छउमत्थवीयरागे णं मोहणिजवजाओ सत्त कम्मपयडीओ वेयेति, तंजहा–णाणावरणिजं दंसणावरणिजं वेयणियं आउयं नामं गोतमंतरातितं (सू० ५६६) सत्त ठाणाई छउमत्थे सब्वभावेणं न याणति न पासति,
+SAऊऊक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org