________________
Jain Education
तं०- पुढविकाइया आउ० तेउ० वाउ० कण्हलेसा जाव सुक्कलेसा अलेसा (सू० ५६२)
सत्तविधं भिज्ज आउं ॥ १ ॥' ( सू० ५६१ ) सत्तविधा सव्वजीवा पं० वणस्सति० तसकातिता अकातिता, अहवा सत्तविहा सब्वजीवा पं० तं० 'सन्ते'त्यादि कण्ठ्यं, संसारिणां च संसरणं आयुर्भेदे सति भवतीति तद्दर्शयन्नाह - 'सत्ते' त्यादि, तत्र 'आउयभेदे'त्ति आयुषो - जीवितव्यस्य भेदः - उपक्रमः आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति, 'अज्झव साण' गाहा, अध्यवसानं - रागस्नेहभयात्मकोऽध्यवसायो निमित्तं दण्डकशाशस्त्रादीनि समाहारद्वन्द्वस्तत्र सति आयुर्भिद्यत इति सम्बन्धः, तथा आहारे - भोजनेऽधिके सति तथा वेदना - नयनादिपीडा पराघातो गर्त्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव तत्र सति, तथा स्पर्शे - तथाविधभुजङ्गादिसम्बन्धिनि सति, तथा 'आणापाणु'त्ति उच्छासनिःश्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अथवा अध्यवसानमायुरुपक्रमका रणमिति शेषः, एवं निमित्तमित्यादि, यावदाणापाणुत्ति व्याख्येयं, प्रथमैकवचनान्तत्वादध्यवसानादिपदानां एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अयं वायुर्भेदः सोपक्रमायुषामेव नेतरेषामिति, आह-यद्येवं भिद्यते आयुस्ततः कृतनाशोऽकृत्याभ्यागमश्च स्यात् कथं ?, संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात्कृतनाशो येन च कर्मणा तद्भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह च - " कम्मोवकामिज्जइ अपत्तकालंपि जइ तओ पत्ता | अकयागमकयनासा मोक्खाणासासओ दोसा ॥ १ ॥" [ अप्राप्तकाले यदि कर्म उपक्रम्यते ततोऽकृतागमकृतनाशान्मोक्षेनाश्वासः दोषाः ॥ १ ॥ ] अत्रोच्यते - यथा
ional
For Personal & Private Use Only
jainelibrary.org