________________
स एवमष्टगुण एव कार्य इत्याह-निदोस' सिलोगो, तत्र निर्दोष-"अलियमुवघायजणय" इत्यादिद्वात्रिंशत्सूत्रदोपरहितं १ सारवद्-अर्थेन युक्तं २ हेतुयुक्तं-अर्थगमककारणयुक्तं ३ अलङ्कृतं-काव्यालङ्कारयुक्तं ४ उपनीतं-उपसंहारयुक्तं ५ सोपचारं-अनिष्ठुराविरुद्धालज्जनीयाभिधानं सोनासं वा ६ मितं पदपादाक्षरैः नापरिमितमित्यर्थः ७ मधुरं त्रिधार शब्दार्थाभिधानतो ८ गेयं भवतीति शेषः। 'तिन्नि य वित्ताईति यदुक्तं तब्याख्या-समसिलोगो, तत्र समं पादैरक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरैस्तु-गुरुलघुभिः, अर्द्धसमं त्वेकतरसमं, विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्याचक्षते-सम-यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्द्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समत्वं, तथा सर्वत्र-सर्वपादेषु विषमं च-विषमाक्षरं यद् यस्माद्वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानि-पद्यप्रकाराः, अत एव चतुर्थ नोपलभ्यत इति, 'दोन्नि य भणिइओ'सि अस्य व्याख्या-'सक्कया' सिलोगो, भणितिः-भाषा 'आहिया' आख्याता स्वरमण्डलेषड्जादिस्वरसमूहे, शेषं कण्ठ्यं । कीदृशी स्त्री कीदृशं गायतीति प्रश्नमाह-केसी' गाहा, 'केसित्ति कीदृशी 'खर'न्ति खरस्थानं रूक्षं-प्रसिद्धं चतुरं-दक्षं विलम्ब-परिमन्थरं दुतं-शीघ्रमिति, 'विस्सरं पुण केरिसित्ति विस्सरं पुण केरिसित्ति गाथाधिकमिति, उत्तरमाह-सामागाहा कण्ठ्या, "पिंगलत्ति कपिला, 'तंति गाहा तन्त्रीसम-वीणादितन्त्रीशब्देन तुल्यं मिलितं च, शेष प्राग्वत्, नवरं 'पादों' वृत्तपादः, तश्रीसममित्यादिषु गेयं सम्बन्धनीय, तथा गेयस्य स्वरानर्थान्तरत्वादुक्तं 'संचारसमा सरा सत्तत्ति, अन्यथा सञ्चारसममिति वाच्यं स्वात्, तैतिसमा तालसमेत्यादि वेति, अयं च स्वरमण्डलसङ्केपार्य:, 'सत्त सरा' सिलोगो, सता तश्री तानो भण्यते, तत्र षड्जादिः स्वरःप्रत्येकं सप्तभिस्तानै-13
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org