________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३९६ ॥
स्वरो वर्त्तितोऽस्फुटितश्च ततः कण्ठविशुद्धं, शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धं, अथवा उरः कण्ठः शिरःसु श्लेष्मणा अव्याकुलेषु विशुद्धेषु - प्रशस्तेषु यत्तत्तथेति चकारो गेयगुणान्तरसमुच्चये गीयते-उच्चार्यते गेयमिति सम्बध्यते, | किंविशिष्टमित्याह ? - ' मृदुकं' मधुरस्वरं 'रिभितं' यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव घोलनाबहुलमित्यर्थः, 'पदबद्धं' गेयपदैर्निबद्धमिति, पदत्रयस्य कर्म्मधारयः, 'समताल पडुक्खेवं ति समशब्दः प्रत्येकं सम्बध्यते तेन समा|स्ताला - हस्तताला उपचारात् तद्रवो यस्मिंस्तत्समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा मुरजकंशिकाद्यातोद्यानां यो ध्वनिस्तलक्षणः नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति, तथा 'सत्तसरसीभरं 'ति सप्त स्वराः 'सीभर' न्ति अक्षरादिभिः समा यत्र तत्सप्तस्वर सीभरं, ते चामी -'अक्खरसमं १ पयसमं २ तालसमं ३ लयसमं ४ गहसमं च ५ । नीससिऊससियसमं ६ सञ्चारसमं ७ सरा सरा ॥१॥ त्ति, इयं च गाथा स्वरप्रकरणोपान्ते 'तंतिसम' मित्यादिरधीतापि इहाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घे अक्षरे दीर्घः स्वरः क्रियते हस्वे ह्रस्वः प्लुते प्लुतः सानुनासिके सानुनासिकः तदक्षरसमं, तथा यद् गेयपदं - नामिकादिकमन्यतरबन्धेन बद्धं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्परस्पराहत हस्ततालस्वरानुवर्त्ति भवति तत्तालसमं, शृङ्ग| दार्वाद्यन्यतरमयेनाङ्गुलिकोशकेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्वेयं तल्लयसमं प्रथमतो वंश तन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समं गीयमानं ग्रहसमं, निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद्वेयं तन्निःश्वसितोच्छ्वसित समं, | तैरेव वंशतन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत्सञ्चारसमं, गेयं च सप्त स्वरास्तदात्मकमित्यर्थः । यो गेये सूत्रबन्धः
Jain Education International
For Personal & Private Use Only
७ स्थाना० उद्देशः ३
स्वरप्रक
रणं
सू० ५५३
॥ ३९६ ॥
www.jainelibrary.org