________________
सरा' गाहा प्रश्ननिर्वचनार्था सष्टा, नवरं रुदितं योनिः-जातिः समानरूपतया यस्य तद् रुदितयोनिकं, पादसमया | उच्छासा-यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छामा गीते भवन्तीत्यर्थः, आकारानाह-'आई' गाहा, आदौ-प्राथम्ये मृदु-कोमलमादिमृदु गीतमिति गम्यते, आरभमाणाः, इह समुदितत्रयापेक्षं बहुवचनमन्यथा एक एव आकारो द्वयमन्यद् वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे-मध्यभागे, तथा अवसाने च क्षपयन्तो-गीतध्वनि मन्द्रीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदिमध्यावसानेषु गीतध्वनिः मृदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः, किं चान्यत्-'छ दोसे' दारगाहा, षट् दोषा वर्जनीयाः, तानाह-'भीयं गाहा, भीतं-त्रस्तमानसं १ द्रुतं-त्वरितं २ 'रहस्संति इस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण 'उप्पिच्छं' श्वासयुक्तं त्वरितं चेति उत्ताल-उत्प्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति ४, 'काकस्वर' श्लक्ष्णाश्रव्यस्वरं, अनुनासं च-सानुनासिकं नासिकाकृतस्वरमित्यर्थः, किमित्याह-गायन् गानप्रवृत्तस्त्वं हे गायन! मा गासीः, किमिति ?, | यत एते गेयस्य षट् दोषा इति । अष्टौ गुणानाह–'पुन्नं' गाहा, पूर्ण स्वरकलाभिः १ रक्तं गेयरागेणानुरक्तस्य २ अलङ्क
तमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३ व्यक्तमक्षरस्वरस्फुटकरणत्वात्.४ 'अविघुटं विक्रोशनमिव यन्न विस्वरं |५ मधुरं-मधुरस्वरं कोकिलारुतवत् ६ सम-तालवंशस्वरादिसमनुगतं ७ सुकुमारं-ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति ८, एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना । किश्चान्यत्-'उरगाहा, उरःकण्ठशिरःसु प्रशस्तं-विशुद्धं, अयमों-यधुरसि स्वरो विशालस्तत उरोविशुद्धं, कण्ठे यदि
Jain Education
For Personal & Private Use Only
Linelibrary.org